________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः इति तस्यैव पुत्रादिहिताचरणेऽधिकृतत्वात् । यत्र पुनः कस्मिंश्चिद्रह्मवधे प्रयोजकभावमापन्नस्यान्यस्मिन्साक्षात्कर्तृत्वे गुरुलघुप्रायश्चित्तसंपातस्तत्र द्वादशवार्षिकादिगुरुप्रायश्चित्तान्तःपातिनः प्रयोजकसंबन्धिलघुप्रायश्चित्तप्रसङ्गात्कार्यसिद्धिः । नचैवं सत्यविशेषाल्लघुकल्पेन महतोऽपि सिद्धिः स्यादित्याशङ्कनीयम् । अत्र यन्तःपातितयानुष्ठाने विशेषानवगमात्प्रसङ्गात्कार्यसिद्धिरेवगम्यते । नच लघ्वन्तःपाती महाकल्प इति कुतः प्रसङ्गा शङ्का । नच चैत्रवधजनितकल्मषक्षयार्थमनुष्ठितेन कथं विष्णुमित्रवधोत्पाद्यपापनिवृत्तिरिति वाच्यम् । चैत्राबुद्देशस्यातन्त्रत्वात् । अतो यथा काम्यनियोगनिष्पत्यर्थं स्वर्गार्थ वानुष्ठितैराग्नेयादिभिर्नित्यनियोगनिष्पत्तिस्तद्वल्लघुप्रायश्चित्तस्यापि कार्यसिद्धिः। यत्पुनर्मध्यमाङ्गिरोवचनम्-'गवां सहस्रं विधिवत्पात्रेभ्यः प्रतिपादयेत् । ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च ॥ इति, तत्सवनस्थगुणवद्राह्मणविषयम् । एतच्च 'द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमादिशेत्' इत्येतद्वाक्यविहितद्विगुणद्वादशवार्षिकवतचयांशतस्य वेदितव्यम् । प्रायश्चित्तस्यातिगुरुत्वात् । न त्वनावृत्तद्वादशवार्षिकविषयम् । तत्र हि द्वादशदिनान्येकैकप्राजापत्यमिति गणनायां प्राजापत्यानां षष्ट्यधिकशतत्रयं भवति । यद्यपि प्राजापत्यस्यान्ते त्र्यहमुपवासोऽधिकस्तथाप्यत्र वनवासजटाधारणवन्याहारत्वादिरूपतपोविशेषयुक्तत्वादुपवासाभावेऽप्येकैकस्य द्वादशाहस्य प्राजापत्यतुल्यत्वम् । ततश्च- 'प्राजापत्यक्रियाशक्ती धेनुं दद्याद्विचक्षणः । गवामभावे दातव्यं तन्मूल्यं वा न संशयः ॥' इत्यनेन न्यायेन प्रतिप्राजापत्यमेकैकस्यां धेन्वां दीयमानायां धेनूनामपि षष्ट्यधिकं शतत्रयं भवति न पुनः स. हस्रम् । अतो यथोक्त एव विषयो युक्तः। यदपि शववचनम्-'पूर्ववदमति. पूर्वं चतुर्पु वर्णेषु विप्रं प्रमाप्य द्वादशवत्सरान्पट् त्रीसाधू संवत्सरं च व्रता. न्यादिशेत्तेषामन्ते गोसहस्रं तदर्धं तस्यार्धं तदर्धं च दद्यात्सर्वेषां वर्णानामानुपूणे ति द्वादशवार्षिकगोसहस्त्रयोः समुच्चयविधिपरं तदाचार्यादिहननविषयं द्रष्टव्यम् । तस्यातिगुरुत्वात् । तथाच दक्षः-'सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । आचार्ये शतसाहस्रं श्रोत्रिये दत्तमक्षयम् ॥' इति प्रतिपाद्योक्तवान्'समद्विगुणसाहस्रमानन्त्यं च यथाक्रमम् । दाने फलविशेषः स्याद्धिंसायां तद्वदेव हि ॥' इति । तथापस्तम्बेन द्वादशवार्षिकमुक्त्वोकमस्मिन्नेव विषये-'गुरु हत्वा श्रोत्रियं वा एतदेव व्रतमोत्तमादुच्छासाचरेत्' इति, तत्र यावजीवमावर्तमाने व्रते यदा त्रैगुण्यं चातुर्गुण्यं वा संभाव्यते तदा तत्र समर्थस्य बहुधनस्यायं दानतपसोः समुच्चयो द्रष्टव्यः । द्वादशवार्षिकव्यतिरिक्तानां तु सुमन्तुपराशराद्युक्तानां प्रायश्चित्तानामुत्तरत्र व्यवस्थां वक्ष्यामः ॥ ननु द्वादशवार्षिकादिकल्पानां व्यवस्था कुतोऽवसिता । न ताववादशवार्षिकादिविधायकवाक्यैरिति युक्तम् । तत्राप्रतीतेः । नच वाच्यं प्रमाणावगतगुरुल
१ पुत्रहिताचरणे ख. २ प्रयोजकाभावापन्न ङ. ३ सिद्धिरुच्यते ङ. ४ मनुष्ठेयेन ख. ५ रूपतया विशेष. ६ समुच्चयपरं ख. ७ द्योक्तत्वात् ख.
For Private And Personal Use Only