SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८० याज्ञवल्क्यस्मृतिः । 'प्रायश्चित्ताध्यायः तकस्येतरस्य च तुल्यत्वस्यायुक्तत्वाच्च । एवंच सति याज्ञवल्क्येन ब्रह्महत्यासdattaraiमपि ब्रह्मज्झत्व वेदनिन्दा सुहृद्वधानां मनुना यत्सुरापानसाम्यम् । ( ११५६ ) - 'ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः । गेहिताचाज्ययोजग्धिः सुरापानसमानि षट् ॥' इत्युक्तं तत्प्रायश्चित्तविकल्पार्थम् । एवमन्ये वपि वचनेषु विरोधः परिहर्तव्यः । यत्तु वसिष्ठेन - 'गुरोरली कनिर्बन्धे कृच्छ्रं द्वादशरात्रकं चरित्वा सचैलः स्नातो गुरुप्रसादात् पूतो भवति' इति लघुप्रायश्चित्तमुक्तं तदमतिपूर्व सकृदनुष्ठाने च वेदितव्यम् ॥ २३१ ॥ गुरुतल्पातिदेशमाह - पितुः स्वसारं मातुश्च मातुलानीं सुपामपि । मातुः सपत्नीं भगिनीमाचार्यतनयां तथा ।। २३२ ॥ आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः । लिङ्गं छिच्चा वर्धस्तस्य सकामायाः स्त्रिया अपि ॥ २३३ ॥ पितृष्वस्रादयः प्रसिद्धास्ताः गच्छन् गुरुतल्पगतस्य लिङ्गं छित्वा राज्ञा वधः कर्तव्यो दण्डार्थं प्रायश्चित्तं च तदेव । चशब्दाद्वाज्ञीप्रव्रजितादीनां ग्रहणम् । यथाह नारदः - 'माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा । पितृव्यसखिशि 1 यत्री भगिनी तत्सखी स्वषा ॥ दुहिताचार्य भार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ आसामन्यतमां गच्छन्गुरुतल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥' इति । राज्ञी राज्यस्य कर्तुर्भार्या, न क्षत्रियस्यैव । तद्गमने प्रायश्चित्तान्तरोपदेशात् । धात्री मातृव्यतिरिक्ता स्तन्यदानादिना पोषयित्री । साध्वी व्रतचारिणी । वर्णोत्तमा ब्राह्मणी । अत्र मातृग्रहणं दृष्टान्तार्थम् । अयं च लिङ्गच्छेदवधात्मको दण्डो ब्राह्मणव्यतिरिक्तस्य । - - 'न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम्' इति तस्य वधनिषेधात् वधयैव प्रायश्चित्तरूपत्वात् । अस्य च विषयं गुरुतल्पप्रायश्चित्तप्रकरणे प्रपञ्चयिव्यामः । अत्र स्नुषाभगिन्योः पूर्वश्लोकेन गुरुतल्पसमीकृतयोः पुनर्ग्रहणं प्रायश्चिविकल्पार्थम् । यदा पुनरेताः स्त्रियः सकामाः सत्य एतानेव पुरुषान्वशीकृत्योपभुञ्जन्ते तदा तासामपि पुरुषवद्वध एव दण्डः प्रायश्चित्तं च । एतानि गुर्वधिक्षेपादितनयागमनपर्यन्तानि महापातकातिदेशविषयाणि सद्यःपतनहेतुत्वात्पातकान्युच्यन्ते । यथाह यमः -- ' मातृष्वसा मातृसखी दुहिता च पितृष्वसा । मातुलानी स्वसा श्वश्रूत्वा सद्यः पतेन्नरः ॥' इति गौतमेन पुनरन्येषामपि पातकत्वमुक्तम् । मातृपितृयोनिसंबद्धाङ्गस्तेन नास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाश्चेति । तेषां च महापातकोपपातकमध्यपाठान्महापातकान्यूनत्वमुपपातकाच्च गुरुत्वमवगम्यते । तदुक्तम्- 'महापातकतुल्यानि पापान्युक्तानि यानि तु । तानि पातकसंज्ञानि तन्यूनमुपपात १ गर्हितान्नाद्ययोः इति पाठः. २ वधस्तत्र ख ३ दण्डार्थः ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy