SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ३७७ तिर्हन्तुः प्रवृत्तिमुपोद्वलयन्ती हिंसा फलंप्रति हेतुतां प्रतिपद्यते । तथा योऽपि भर्त्सनताढनधनापहारादिना परान्कोपयति सोऽपि मरणहेतुभूतमन्यूत्पादनद्वारेण हिंसा हेतुर्भवत्येव । अतएव विष्णुनोक्तम्- 'आकुष्टस्ताडितो वापि धनैर्वा विप्रयोजितः । यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ॥' इति । तथा - 'ज्ञातिमित्रकलत्रार्थं सुहृत्क्षेत्रार्थमेव च । यमुद्दिश्य त्यजेत्प्राणांस्तमा हुर्ब्रह्मधातकम् ॥ इति । नच कृतेष्वप्याक्रोशनादिषु कस्यचिन्मन्यूत्पश्यदर्शनादकारणतेति शङ्कनीयम् । पुरुषस्वभाववैचित्र्यात् । ये अल्पतरेणापि निमित्तेन जातमन्यवो भवन्ति तेष्वव्यभिचार इति नाकारणता । एतेषां चानुग्राहकप्रयोजकादीनां प्रत्यासत्तिव्यवधानापेक्षया व्यापारगतगुरुलाघवापेक्षया च फैलगुरुलाघवात् प्रायश्चित्तगुरुलाघवं बोद्धव्यम् । - ' यो भूय आरभते तस्मिम्फलविशेषः', इति वचनात् । तथा ह्यनुग्राहकस्य तावत्स्वयमेव हिंसायां प्रवृत्तत्वेन स्वतन्त्रकर्तृत्वे सत्यपि साक्षात्प्राणवियोगफलकखड्ग प्रहारादिव्यापारयोगित्वाभावेन साक्षारकर्तृवद्भूयो हिंसारम्भकत्वाभावादल्पफलत्वमल्पप्रायश्चित्तत्वं च । प्रयोजकस्य तु स्वतन्त्रकर्तृप्रवृत्तिजनकत्वेन व्यवहितत्वात्ततोऽल्पफलत्वम् । प्रयोजकानां मध्ये परार्थप्रवृत्तत्वेनोपदेष्टुरल्पफलत्वम् ॥ ननु प्रयोजक हस्तस्थानी - यत्वात्प्रयोज्यस्य न फलसंबन्धो युक्तः । यदि परप्रयुक्त्या प्रवर्तमानस्यापि संबन्धस्तर्हि स्थपतितडागखनितृप्रभृतीनामपि मूल्येन प्रवर्तमानानां स्वर्गादिफलप्राप्तिप्रसङ्गः । उच्यते । शास्त्रोक्तं फलं प्रयोक्तरीति न्यायेनाधिकारिकर्तृगतफलजनका देवैकूपतडाग निर्माणादयः । नच स्थपतितडागखनित्रादयो देवपतडागकरणादिष्वधिकारिणः । अस्वर्गकामित्वात् । अत्र पुनः परप्रयुक्त्या प्रवर्तमानानामप्यहिंसायामधिकारित्वाद्भवत्येव तद्व्यतिक्रमनिबन्धनो दोषः । अनुमन्तुस्तु प्रयोजकादप्यल्पफलत्वं प्रयोजकव्यापाराद्वहिरङ्गत्वा लघुत्वाच्चानुमननस्य । निमित्तकर्तुः पुनराकोशकादेः प्रवृत्तिहेतुभूतमन्युजनकत्वेन व्यवहितत्वान्मरणानुसंधानं विना प्रवृत्तत्वाच्चानुमन्तुः सकाशादप्यल्पफलत्वम् ॥ ननु यदि व्यवहितस्यापि कारणत्वं तर्हि मातापित्रोरपि हन्तृपुरुषोत्पादनद्वारेण हनन कर्तृत्वप्रसङ्गः । उच्यते । नहि पूर्व भावित्वमात्रेण कारणत्वम् कारणकारणतयापि तथाभावित्वोपपत्तेः । यत्खलु स्वरूपातिरिक्तकार्योत्पत्यनुगुणव्यापारयोगि भवति तद्वि कारणम् । यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान् ग्रहान् गृह्णीयादिति रथन्तरसामतेव ऋतोरैन्द्रवायवाग्रताय कारणं । नहि तत्र सोमयागः स्वरूपेण कारणं व्यभिचारात् । नच पित्रोस्तादृग्विध कारणलक्षणयोगित्वमिति नातिप्रसङ्गः । अनेनैव न्यायेन धर्माभिसंधिना निर्मितकूपवाप्यादौ प्रमादपतितब्राह्मणादिमरणे खानयितुर्दोषाभावः । नहि कूपोऽनेन खानितः अतोऽहमात्मानं व्यापादयामीत्येवं कूपखनन निमित्तं व्यापादनं यथाक्रोशादौ । अतः कूपकर्तुरपि कारणकारणत्वमेव न पुनहिंसाहेतुल्यमिति मातापितृतुल्यतैव । तथा कचित्सत्यपि हिंसानिमित्तयोगित्वे परोप - १ तथान्यपि ख. २ फलंगुरु ख ३ देवकुलतडाग. क. ग. ङ. ४ तडागकर्त्रादयो ख. ५ दप्यफलत्वम् ख. ६ यता कारणं ङ. ७ नास्तिप्रतंगः क. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy