________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७६
याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः ।
क्षयो भवत्येव । फलान्तराभावात् । 'नास्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते कल्मषं तु निर्हन्यते ' इत्यापस्तम्ब स्मरणात् ॥ २२६ ॥
निषिद्धाचरणादिकं प्रायश्चित्ते निमित्तमित्युक्तं तत्प्रपञ्चयितुमाह
ब्रह्मा मद्यपः स्तेनस्तथैव गुरुतल्पगः ।
एते महापातकिनो यश्च तैः सह संवसेत् ॥ २२७ ॥
हन्तिरयं प्राणवियोगकरे व्यापारे रूढः । यद्व्यापारसमनन्तरं कालान्तरे वा कारणान्तरनिरपेक्षः प्राणवियोगो भवति सः । ब्राह्मणं हतवानिति ब्रह्महा । म द्यपो निषिद्धसुरायाः पाता । स्तेनः ब्राह्मणसुवर्णस्य हर्ता । 'ब्राह्मणसुवर्णापहरणं महापातकं' इत्यापस्तम्ब स्मरणात् । गुरुतल्पगो गुरुभार्यागामी । तल्पशब्देन शयनवाचिना साहचर्याद्भार्या लक्ष्यते । एते ब्रह्महादयो महापातकिनः । पातयन्तीति पातकानि ब्रह्महत्यादीनि । महच्छब्देन तेषां गुरुत्वं ख्याप्यते तद्योगिनो महापातकिन इति । लावदार्थ संज्ञाकरणम् । यश्च तैर्ब्रह्महादिभिः प्रत्येकं सह संवसति 'एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः' इति वक्ष्यमाणन्यायेन सोऽपि महापातकी । तथाशब्दः प्रकारवचनोऽनुग्राहकप्रयोजकादिकर्तृ संग्रहार्थः । अनुग्राहकश्च यः पलायमानममित्रं उपरुन्धन् परेभ्यश्च हन्तारं परिरक्षन्हन्तुर्दढिमानमुपजनयन्नुपकरोति स उच्यते । अतएव मनुनानुग्राहकस्य हिंसाफलसंबन्धो दर्शितः - ' बहूनामेककार्याणां सर्वेषां शस्त्रधारिणाम् । यद्येको घातयेत्तत्र सर्वे ते घातकाः स्मृताः ॥' इति ॥ तथा प्रयोजकादीनामध्यापस्तम्बेन फलसंबन्ध उक्तः - 'प्रयोजितानुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु यो भूय आरभते तस्मिन्फलविशेषः' इति । तत्राप्रवृत्तस्य प्रवर्तकः प्रयोजकः । स च त्रिप्रकारः- आज्ञापयिताभ्यर्थयमान उपदेष्टेति । तत्राज्ञापयिता नाम स्वयमुच्चः स नीचं भृत्यादिकं यः प्रेरयति मदीयममित्रं जहीति स उच्यते । अभ्यर्थयमानस्तु यः स्वयमसमर्थः सन् प्रार्थनादिना मच्छत्रं व्यापादयेत्युचं प्रवर्तयति सोऽभिधीयते । अनयोश्च स्वार्थसिद्ध्यर्थमेव प्रयोक्तृत्वम् । उपदेष्टा पुनस्त्वं शत्रुमित्थं व्यापादयेति मर्मोद्घाटनाद्युपदेशपुरःसरं प्रेरयन्कथ्यते । तत्र च प्रयोज्यगतमेव फलमिति तेषां भेदः । अनुमन्ता तु प्रवृत्तस्य प्रवर्तकः । स द्विप्रकारः - कश्चित्स्वार्थसिध्यर्थमनुजानाति कश्चित्परार्थमिति ॥ नन्वनुमननस्य कथं हिंसा हेतुत्वं न तावत्प्राणवियोगोत्पादनेन, तस्य साक्षात्कर्तृव्यापारजन्यत्वात् । नापि प्रयोजकस्येव, साक्षात्कर्तृ प्रवृत्त्युत्पादनद्वारेण प्रवृत्तस्य प्रवर्तकत्वात् । नच साधु त्वयाध्यवसितमिति प्रवृत्तमेवानुमन्यत इति शङ्कनीयम् । तादृशस्यानुमननस्य हिंसां प्रत्यहेतुत्वाद्व्यर्थत्वाच्च । उच्यते । यत्र हि राजादिपारतंत्र्यात्स्वयं मनसा प्रवृत्तोऽपि प्रवृत्ति • विच्छेद भयादागामिदण्डभयाद्वा शिथिलप्रयतो राजाद्यनुमतिमपेक्षते तत्रानुम
--
१ नास्यान्यस्मिल्लोके ख. २ वियोगकरणे ख. ३ समर्थ प्रवर्तयति ङ. ४ तादृशमननस्य ख.
For Private And Personal Use Only