________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
३७५
त्कर्मणः । मैवम् । यथा पापोत्पत्तिः शास्त्रगम्या तथा तत्परिक्षयोऽपीति नात्र प्रमाणान्तरं क्रमते । अतएव गौतमेन पूर्वोत्तरपक्षभञ्ज्या अयमर्थो दर्शितः । तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते । न कुर्यादित्याहुर्नहि कर्म क्षीयते इति । कुर्यादित्यपरे । 'पुनः स्तोमेनेष्ट्रा पुनः सवनमायान्तीति विज्ञायते । वात्यस्तोमेवा तरति सर्वे पाप्मानं तरति भ्रूणहत्यां योऽश्वमेधेन यजते ' इति पुनः सवनमायान्ति इति सवन संपाद्यज्योतिष्टोमादि द्विजातिकर्मणि योग्यो भवतीत्यर्थः । नचेदमर्थवादमात्रम् | अधिकारिविशेषणाकाङ्क्षायां रात्रिसत्रन्यायेनार्थवादिकफलस्यैव कल्पनाया न्याय्यत्वात्, अतो युक्तं प्रायश्चित्तैरपैत्येन इति ॥ ननु कामकृते प्रायश्चित्ताभावात्कथं व्यवहार्यत्वं तदभावश्च 'अनभिसंधिकृतेऽपराधे प्रायश्चित्तम्' इति वसिष्ठवचनात् 'इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥' इति मनुवचनाच्चावगम्यते । नैतत् । 'यः कामतो महापापं नरः कुर्यात्कथंचन । न तस्य निष्कृतिर्दृष्टा भृग्वनिपतनादृते ॥' इति । तथा 'विहितं यदकामानां कामात्तद्विगुणं भवेत्' इति च कामकृतेऽपि प्रायश्चित्तदर्शनात् । यत्तु वसिष्ठवचनं तस्याप्यकामकृतेऽपराधे प्रायश्चित्तं शुद्धिकरमित्यभिप्रायो न पुनः कामकृते प्रायश्चित्ताभाव इति ॥ यत्तु मनुवचनं 'इयं विशुद्धिरुदिता' इत्यादि, तदपीयमिति सर्वनामपरामृष्टद्वादशवार्षिकादिव्रतचर्याया एव । 'कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते' इत्यनेन प्रतिषेधो न पुनः प्रायश्चित्तमात्रस्य । मरणान्तिकादेः प्रायश्चित्तस्य दर्शितत्वात् ॥ ननु यदि कामकृतेपि प्रायश्चित्तमस्ति तर्हि पापक्षयोऽपि कस्मान्न स्यादविशेपाद्यदि पापक्षयोऽपि नास्ति तर्हि व्यवहार्यतापि कथं भवति ॥ उच्यते । उभयत्र प्रायश्चित्ताविशेषेऽपि फलविशेषः शास्त्रतोऽवगम्यते । अज्ञातकृते तु सर्वत्र पापक्षयः । यत्र तु 'ब्रह्म हे सुरापगुरुतल्पगमातृपितृ योनि संबद्धांगस्तेन नास्तिकनिन्दितकर्माभ्यासि पतितात्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाच' इति गौतमो महापातकादौ व्यवहार्यत्वं निषिद्धं तस्मिन्पत्तनीये कर्मणि कामतः कृते व्यवहार्यत्वमात्रं न पापक्षय इति । नच पापक्षयाभावे व्यवहार्यत्वमनुपपनम् । द्वे हि पापस्य शक्ती नरकोत्पादिका व्यवहारनिरोधिका चेति । तत्रेतरशतयविनाशेऽपि व्यवहार निरोधिकायाः शक्तेर्विनाशो नानुपपन्नस्तस्मात्पापानपगमेsपि व्यवहार्यत्वं नानुपपन्नम् । यत्तु मनुवचनम् (११ / ४५ ) - ' अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥' इति तदपि कामकृते प्रायश्चित्तप्राप्त्यर्थं न पुनः पार्पेक्षयप्रतिपादनपरम् । अपतनीये पुनः कामकृतेऽपि प्रायश्चित्तेन पापक्षयो भवत्येव । ( ११।४६ ) - ' अकामतः कृतं पापं वेदाभ्यासेन शुद्ध्यति । कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः ॥' इति मनुस्मरणात् । पतनीयेऽपि कर्मणि कामकृते मरणान्तिकप्रायश्चित्तेषु कल्मष
१ नेट्वा ब्रह्मचर्यं चरेदुपनयनत इति सर्व पाप्मानं ख. २ ब्रह्महा सुरापो गुरुतल्पगो मातृपितृ ख. ३ संबन्धावगम ङ. ४ पापक्षयं प्रति प्रतिपादन ङ.
For Private And Personal Use Only