________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
३७३ रासिद्धिरूपप्रत्यवायाभिप्रायेणेति न दोषः । ननु (१२।७१।७२)-'वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्युतः । अमेध्यकुणपाशी तु क्षत्रियः कटपूतनः ॥ मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् । चैलाशकस्तु भवति शूद्रो धर्मात्स्वकाच्युतः ॥' इति । एतानि विहिताकरणप्रत्यवायपराणि मनुवचनानि कथं घटन्ते । उच्यते । यथा वातन्मश्नत उल्कया वा दह्यमानमुखस्य दुःखं तथास्यापि विहितमकुर्वतः पुरुषस्य पुरुषार्थासिद्धरित्यकरणनिन्दनमनुष्टानप्ररोचनार्थमित्यविरोधः। यद्वा प्राग्भवीयनिषिद्धाचरणाक्षिप्तविहितानुष्ठानविरोधिरागालस्यादिजन्यवान्ताश्युल्कामुखप्रेतत्वादिरूपमिति न क्वचिदभावस्य कारणतेति मन्तव्यम् ॥ ननु पुंश्चलीवानरखरदृष्ट(श्वदष्ट)मिथ्याभिशस्तादौ वि. हिताकरणादिनिमित्तानामन्यतमस्याप्यभावात्कथं प्रत्यवायिता, कथं च तदभावे प्रायश्चित्तविधानम्। उच्यते । अस्मादेव पापक्षयार्थप्रायश्चित्तविधानाजन्मान्तराचरितनिषिद्धसेवादिजन्यपापापूर्वं समाक्षिप्तमित्यभिशापादिकं तन्निमित्तप्रायश्चित्तापनोद्यमनेनानुष्टितमिति कल्प्यते । पुरुषप्रयत्ननैरपेक्ष्येण कार्यरूपपापोत्पत्त्यनुपपत्तेः । नच पुंश्चल्यादिगतप्रयत्नेन पुरुषान्तरे पापोत्पत्तिः, कर्तृसमवायिस्वनियमाद्धर्माधर्मयोः, तस्माद्युक्तैव प्रायश्चित्ते निमित्तत्रयपरिगणना । तथाच मनुः (११।४४)-'अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसतश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥' इति । नरग्रहणं प्रतिलोमजातानामपि प्रायश्चित्ताधिकारप्राप्त्यर्थम् । तेपामप्यहिंसादिसाधारणधर्मव्यतिक्रमसंभवात् । यस्मादेवं निषिद्धाचरणादिना प्रत्यवैति तस्मात्तेन कृतनिषिद्धसेवादिना पुरुषेण प्रायश्चित्तं कर्तव्यमिह लोके परत्र च विशुद्ध्यर्थम् । प्रायश्चित्तशब्दश्चायं पापक्षयार्थे नैमित्तिके कर्मविशेष रूढः । एवं प्रायश्चित्ते कृते अस्यान्तरात्मा शुद्धतया प्रसीदति लोकश्च संव्यवहर्तुं प्रसीदति । एवं वदतैतद्दर्शितम् । नैमित्तिकोऽयं प्रायश्चित्ताधिकारः, तत्र चार्थवादगतदुरितक्षयोऽपि जातेष्टिन्यायेन साध्यतया स्वीक्रियते । नच दुरितपरिजिहासुनानुष्टीयत इत्येतावता कामाधिकारोशङ्का कार्या । यस्मात् (मनुः ११॥५३)-'चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः ॥' इत्य करणे दोषश्रवणेनावश्यकत्वावगमात् ॥ २१९ ॥ २२०॥ प्रायश्चित्ताकरणे दोषमाह
प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः।
अपश्चात्तापिन: कष्टानरकान्यान्ति दारुणान् ॥ २२१॥ पापेषु शास्त्रार्थव्यतिक्रमजनितेषु प्रसक्ताः पुरुषाः अपश्चात्तापिनो मया दुष्कृतं कृतमित्येवमुद्वेगरहिताः प्रायश्चित्तमकुर्वाणाः दुःसहान्नरकान्प्राप्नुवन्ति ॥ २२१ ॥
___१ विप्रो भवति विच्युतः ग. ङ. २ मित्रदेवताकत्वान्मैत्रः पायुस्तदेवाक्षं कमेंन्द्रियं तत्र ज्योतिर्यस्य. ३ प्रायश्चित्तनिमित्त ङ. ४ लोकश्चायं संव्यव ख. ५धिकारशङ्का उ.६ दुःखदान् ङ.
For Private And Personal Use Only