________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७२
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
एवं प्रायश्चित्तेषु प्ररोचनार्थे कर्मविपाकमभिधायाधुना तेष्वेवाधिकारिणं निरूपयितुमाह
विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति ॥ २१९ ॥ तस्मात्तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये । एवमस्यान्तरात्मा च लोकश्चैव प्रसीदति ॥ २२० ॥
स
विहितमिति यदावश्यकं संध्योपासनाग्निहोत्रादिकं नित्यमशुचिस्पर्शादौ नैमित्तिकत्वेन चोदितं स्नानादिकं च तदुभयमुच्यते तस्याकरणात्, निन्दितस्य निषिद्धस्य सुरापानादे: करणात् इन्द्रियाणामनिग्रहाच्च नरः पतनमृच्छति प्राप्नोति । प्रत्यवायी भवतीति यावत् ॥ ननु 'इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः' इतीन्द्रियप्रसक्तेरपि निषिद्धत्वान्निन्दितग्रहणेनैव गतार्थत्वात्किमर्थम निग्रहाचेन्द्रियाणामिति पृथगुपादानम् । अत्रोच्यते - इन्द्रियप्रसक्तिनिषेधस्य नैकान्ततः प्रतिषेधरूपता स्नातकव्रतमध्येऽस्य पाठात्तत्र च ' व्रतानीमानि धारयेत्' इति व्रतशब्दाधिकारान्नञ्श्रवणाच्चेन्द्रियप्रसक्तिप्रतिषेधकः संकल्पो विधीयते । ਬੰ भावरूप इति पृथगुपादानम् ॥ ननु विहिताकरणात् प्रत्यवैतीति कुतो - saसितम् । न तावदग्निहोत्रादिचोदना पुरुषप्रवर्तनात्मिकाऽननुष्ठानस्य प्रत्यवायहेतुतामाक्षिपति । विषयानुष्ठानस्य पुरुषार्थत्वावगतिमात्र पर्यवसायिनी हिसा तावन्मात्रेण प्रवृत्त्युपपत्तेर्न पुनरकरणस्य प्रत्यवायहेतुत्वमपि वक्ति । क्षीणशक्तित्वादनुपपत्तेः । किंच । येद्यनुपपत्युपशमेति प्रवृत्तिसिद्ध्यर्थमर्थान्तरं कल्प्यते तर्हि निषिध्यमानक्रियाजन्यप्रत्यवाय परिहारार्थतयैव तद्वर्जनस्य पुरुषार्थत्वसिद्धावपि फलान्तरं कल्प्येत । नचैतत्कस्यचिदपि संमतम् ॥ ननु यथा निषिद्धेष्ववादावगतप्रत्यवायपरिहारार्थतयैव पुरुषार्थत्वं तथा विहितेष्वप्यर्थवादावगताकरणजन्यप्रत्यवायपरिहारार्थता कस्मान्न स्यात् ॥ मैवम् । नहि सर्वत्राग्निहोत्रादिषु तादृग्विधार्थवादाः सन्ति । नच 'विहितस्याननुष्ठानान्नरः पतनमृच्छति' इतीयं स्मृतिरेव वाक्यशेषस्थानीयेति चतुरस्रम् । नहि वाक्यान्तरप्रमिते कार्ये वाक्यान्तरेणार्थवादः संभवति । भवतु वा कथंचिदेकवाक्यतयार्थवादस्तथापि नाभावरूपं विहिताकरणे कार्यान्तरं जनयितुं क्षमते । ननु 'ज्वरे चैवातिसारे च लङ्घनं परमौषधम्' इत्यायुर्वेदवचनाद्भोजनाभावरूपं लङ्घनं ज्वरशान्ति जनयतीति यथावगम्यते तथात्रापि भवतु । मैवम् । यतो नात्रापि लङ्घनाज्वरशान्तिः किं तर्हि ज्वरनाशप्रतिबन्धकभोजनाभावे सति जठरानलपरिपार्केज निताद्धातुसाम्यादिति मन्तव्यम् । तस्मात् 'विहितस्याननुष्ठानान्नरः पतनमृच्छति' इति कथमस्याः स्मृतेर्गतिरिति वाच्यम् । उच्यते । अग्निहोत्रादिविषयाधिका
१ सचोभय ख. २ यद्यप्यनुप ख. ३ नाभावरूपविहिताकरणं ख. ४ परिपाकजननाद्धातु ख.
For Private And Personal Use Only