________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४] मिताक्षरासहिता ।
३६५ दायुर्विद्यादिकं वाड्मयं तदपि यत्सकाशात्प्रवृत्तं तथाविधास्ते मुनयो धर्मप्रवतकाः । एवंसति वेदस्यापि नानित्यतादोषप्रसङ्गः ॥ १८९ ॥ ततः किमित्यत आह
वेदानुवचनं यज्ञो ब्रह्मचर्य तपो दमः।
श्रद्धोपवासः स्वातव्यमात्मनो ज्ञानहेतवः ॥ १९० ॥ वेदस्य नित्यत्वे सति तत्प्रामाण्यवलाद्वेदानुवचनादयः सत्वशुद्ध्यापादनद्वारेणात्मज्ञानस्य हेतव इत्युपपन्नं भवति ॥ १९० ॥
स ह्याश्रमैर्विजिज्ञास्यः समस्तैरेवमेव तु । द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः ॥ १९१ ॥ य एनमेवं विन्दन्ति ये चारण्यकमाश्रिताः।
उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥ १९२॥ किंच । यस्मान्नित्यतयात्मप्रमाणभूतो वेदस्तस्मादसावुक्तमार्गेण सकलाश्रमिभिर्नानाप्रकारं जिज्ञासितव्यः । तमेव प्रकारं दर्शयति । द्विजातिमिद्रष्टव्योऽपरोक्षीकर्तव्यः । तत्रोपायं दर्शयति-श्रोतव्यो मन्तव्य इति । प्रथमतो वेदान्तश्रवणेन निर्णतव्यः । तदनन्तरं मन्तव्यः युक्तिमिर्विचारयितव्यः। ततोऽसौ ध्यानेनापरोक्षीभवति । ये द्विजातयोऽतिशयश्रद्धायुक्ताः सन्तो निर्जनप्रदेशमाश्रिताः सन्त एवमुक्तेन मार्गेण एनमात्मानं सत्यं परमार्थभूतमुपासते ते आस्मानं विदन्ति लभन्ते प्रामुवन्ति ॥ १९१ ॥ १९२ ॥ प्राप्तिमार्गदेवयानमाह
क्रमात्ते संभवन्त्यर्चिरहः शुक्लं तथोत्तरम् । अयनं देवलोकं च सवितारं सवैद्युतम् ॥ १९३॥ ततस्तान्पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान् ।
करोति पुनरावृत्तिस्तेषामिह न विद्यते ॥ १९४ ॥ ते विदितात्मानः क्रमादग्न्याद्यमिमानिदेवतास्थानेषु मुक्तिमार्गभूतेषु विश्राम्य तैः प्रस्थापिताः परमपदं प्राप्नुवन्ति । अचिर्वह्निः, अहर्दिनं, शुक्लपक्षः, तथोत्तरायणं, सुरसम, सविता सूर्यः, वैद्युतं च तेजः, तान् एवं क्रमादर्चिरादिस्थानगतान्मानसः पुरुषो ब्रह्मलोकभाजः करोति । तेषामिह संसारे पुनरावृत्तिर्न विद्यते किंतु प्राकृतप्रतिसंचरावसरे त्यक्तलिङ्गशरीराः परमात्मन्येकीभवन्ति ॥ १९३ ॥ १९४ ॥ पूर्वोक्तपितृयानमाह
यज्ञेन तपसा दानैर्ये हि स्वर्गजितो नराः ।
For Private And Personal Use Only