SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६४ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः अजवीथ्यमरमार्गः तस्यागस्त्यस्य च यदन्तरमसौ पितृयानस्तेनाग्निहोत्रिणः स्वर्गकामाः दिवं यान्ति स्वर्गं प्राप्नुवन्ति ॥ १४ ॥ ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः।। तेऽपि तेनैव मार्गेण सत्यव्रतपरायणाः ॥ १८५॥ किंच। ये च दानादिस्मार्तकर्मपराः सम्यग्दम्भरहिताः तथाष्टाभिरात्मगुणैदयाक्षान्तिरनसूयाशौचमनायासो मङ्गलमकार्पण्यमस्पृहेति गौतमादिप्रतिपादितैर्युक्ताः। तथा ये च संत्यवदननिरतास्तेऽपि तेनैव पितृयानेनैव सुरसदनमामुवन्ति ॥ १०५ ॥ ननु नैमित्तिकादिप्रतिसंचरेऽखिलाध्यापकप्रलयादविदितवेदास्तस्योपरितना जनाः कथमग्निहोत्रादिकं कर्म करिष्यन्ति कथंतरां चाकृतकर्माणः स्वर्गमार्गमधिरोक्ष्यन्तीत्यत आह तत्राष्टाशीतिसाहस्रा मुनयो गृहमेधिनः । पुनरावर्तिनो बीजभूता धर्मप्रवर्तकाः ॥ १८६ ॥ तन्त्र पितृयानेऽष्टाशीतिसहस्रसंख्या मुनयो गृहस्थाश्रमिणः पुनरावृत्तिधर्माणः सर्गादौ वेदस्योपदेशकतया धर्मतरुप्रादुर्भावे बीजभूताः सन्तोऽमिहोत्रादिधर्मप्रवर्तकाः, अतो न प्रागुदितदोषसमासङ्गः ॥ १८६ ॥ सप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः । तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥ १८७ ॥ तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया । तत्र गत्वावतिष्ठन्ते यावदाभूतसंप्लवम् ॥ १८८ ॥ किंच। सप्तर्षयः प्रसिद्धाः नागवीथी ऐरावतपन्थाः तदन्तराले तावन्त एव अष्टाशीतिसहस्रसंख्या मुनयः सर्वारम्भविवर्जिताः केवलज्ञाननिष्ठाः तपोब्रह्मचर्ययुक्ताः तथा सङ्गत्यागिनो देवलोकं समाश्रिताः आभूतसंप्लवं प्राकृतप्रलयपर्यन्तमवतिष्ठन्ते । तत्र च स्थिताः सृष्टयादावाध्यात्मिकधर्माणां प्रवर्तकाः ॥ १८७ ॥ १८८॥ कथंमूतास्ते मुनय इत्यत आह यतो वेदाः पुराणानि विद्योपनिषदस्तथा । श्लोकाः सूत्राणि भाष्याणि यच्च किंचन वाअयम् ॥१८९॥ यतो द्विविधादपि मुनिसमूहाच्चत्वारो वेदाः पुराणाङ्गविद्योपनिषदश्च नित्यभूता एवाध्येतृपरम्परायाताः प्रवृत्तास्तथा श्लोका इतिहासात्मकाः सूत्राणि च शब्दानुशासनमीमांसागोचराणि भाष्याणि च सूत्रव्याख्यारूपाणि यदन्य १ सत्यवचन स. २ समागमः ङ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy