________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४] मिताक्षरासहिता ।
णान्तराग्राह्यत्वात् । असन् अस्पष्टप्रतीतिकत्वात् । सदसद्रूपोऽसावात्मा क्षेत्रज्ञ इति निगद्यते ॥ १७७ ॥ १७८॥ बुद्ध्यादेरुत्पत्तिमाह
बुद्धेरुत्पत्तिरव्यक्तात्ततोऽहंकारसंभवः।
तन्मात्रादीन्यहंकारादेकोत्तरगुणानि च ॥ १७९ ॥ सस्वादिगुणसाम्यमव्यक्तम् । ततस्त्रिप्रकारायाः सत्त्वरजस्तमोमय्या बुद्धेरुत्पत्तिः तस्याश्च वैकारिकस्तैजसो भूतादिरिति त्रिविधोऽहंकार उत्पद्यते। तत्र तामसाद्भूतादिसंज्ञकादहंकारात्तन्मात्राणि आदिग्रहणाद्गगनादीनि तानि चैकोत्तरगुणान्युत्पद्यन्ते । चशब्दाद्वैकारिकतैजसाभ्यां बुद्धिकर्मेन्द्रियाणामुत्पत्तिः ॥३७९॥ गुणस्वरूपमाह
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणः।
यो यसानिःसृतश्चैषां स तस्मिन्नेव लीयते ॥ १८०॥ तेषां गगनादिपञ्चभूतानां एकोत्तरवृद्ध्या पञ्च शब्दादयो गुणा वेदितव्याः । एषां च बुद्ध्यादिविकाराणां मध्ये यो यस्मात्प्रकृत्यादेरुत्पन्नः स तस्मिन्नेव सूक्ष्मरूपेण प्रलयसमये प्रलीयते ॥ १८०॥ प्रकरणार्थमुपसंहरबाह
यथात्मानं सृजत्यात्मा तथा वः कथितो मया। विपाकात्रिप्रकाराणां कर्मणामीश्वरोऽपि सन् ॥१८१॥ सत्वं रजस्तमश्चैव गुणास्तस्यैव कीर्तिताः। रजस्तमोभ्यामाविष्टश्चक्रवद्धाम्यते ह्यसौ ॥ १८२ । अनादिरादिमांश्चैव स एव पुरुषः परः । लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः॥१८३॥ मानसादित्रिप्रकारकर्मणां विपाकादीश्वरोऽपि सन्नात्मा यथात्मानं सृजति तथा युष्माकं कथितः । सत्वाद्याश्च गुणास्तस्यैवाविद्याविशिष्टस्य कीर्तिताः । तथा स एव रजस्तमोभ्यामाविष्टश्चक्रवदिह संसारे भ्राम्यतीत्यपि कथितम् । स एवानादिः परमपुरुषः शरीरग्रहणेनादिमान् कुजवामनादिविकारसहितस्तथा स्थूलाकारतया परिणतो लिङ्गैरिन्द्रियैश्च ग्राह्यस्वरूप उदाहृतः ॥ १८१-१८३ ॥ स्वर्गमार्गमाह
पिठ्यानोऽजवीथ्याश्च यदगस्त्यस्य चान्तरम् ।
तेनाग्निहोत्रिणो यान्ति वर्गकामा दिवं प्रति ॥ १८४ ॥ १ तद्गुणाः ख. २ तस्यैवाविशिष्टस्य ख.
For Private And Personal Use Only