________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः शुभाशुभफलद्योतनैः जागरैर्जागरावस्थाजन्यैश्च सच्छिद्रादित्यादिदर्शनैः तथा स्वमजैः खरवराहयुक्तरथारोहणादिज्ञानैः, तथा आकाशाद्यैश्च जीवोपभोगार्थतया सृष्टैः, तथा मन्वन्तरप्राध्या युगान्तरमाया देहेऽनुपपद्यमानतया, तथा मन्त्रीषधिबलैः प्रेक्षापूर्वकैः क्षुद्रकर्माधैः साक्षात्परम्परया वा देहेऽनुपपद्यमानैवेद्यमानं हे मुनयः, वित्त जानीत ॥ १७०-१७३ ॥
अहंकारः स्मृतिर्मेधा द्वेषो बुद्धिः सुखं धृतिः। इन्द्रियान्तरसंचार इच्छा धारणजीविते ॥ १७४ ॥ वर्गः स्वप्नश्च भावानां प्रेरणं मनसो गतिः। निमेषश्चेतना यत्न आदानं पाश्चभौतिकम् ॥ १७५ ॥ यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः ।
तसादस्ति परो देहादात्मा सर्वग ईश्वरः ॥ १७६ ॥ किंच । अहंकृतिरहंकारः । स्मृतिः प्राग्भवीयानुभवभावितसंस्कारोद्बोधनिबन्धना स्तन्यपानादिगोचरा । सुखमैहिकम् । इतिधैर्यम् । इन्द्रियान्तरेण हि दृष्टेऽर्थे इन्द्रियान्तरस्य संचारो यमहमद्राक्षं तमहं स्पृशामीत्येवमनुसन्धानरूप इन्द्रियान्तरसंचारः । अत्रेच्छाप्रयत्नचैतन्यानां स्वरूपेण लिङ्गत्वम् । पूर्वश्लोके तु गमनसत्यवचनादिहेतुतया आर्थिकं लिङ्गस्वमित्यपौनरुत्यम् । तथा धारणं शरीरस्य । जीवितं प्राणधारणम् । स्वर्गो नियतदेहान्तरोपभोग्यः सुखविशेषः । स्वप्नः प्रसिद्धः । पूर्वश्लोके तु स्वप्नस्य शुभफलद्योतेनाय लिङ्गत्वं अत्र स्वरूपेणेत्यपौनरुक्त्यम् । तथा भावानामिन्द्रियादीनां प्रेरणम् । मनसो गतिश्चेतनाधिष्ठानव्याप्ता । निमेषः प्रसिद्धः । तथा पञ्चभूतानामुपादानम् । यस्मादेतानि लिङ्गानि भूतेष्व. नुपपन्नानि साक्षात्परम्परया वा परमात्मनो द्योतकानि दृश्यन्ते तस्मादस्ति देहातिरिक्त आत्मा सर्वग ईश्वर इति सिद्धम् ॥ १७४-१७६ ॥ क्षेत्रज्ञस्वरूपमाहबुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च । अहंकारश्च बुद्धिश्च पृथिव्यादीनि चैव हि ॥ १७७ ॥ अव्यक्तमात्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते ।
ईश्वरः सर्वभूतस्थः सनसन्सदसच यः॥ १७८ ॥ बुद्धीन्द्रियाणि श्रोत्रादीनि सार्थानि शब्दादिविषयसहितानि मनः कर्मेन्द्रियाणि वागादीनि तथाहंकारो बुद्धिश्च निश्चयात्मिका पृथिव्यादीनि पञ्चभूतानि अव्यक्तं प्रकृतिरित्येतत् क्षेत्रमस्य योऽसावीश्वरः सर्वगतः अतएव सद्रूपः प्रमा
१ श्लोकेऽनुगमन ङ. २ द्योतकतया क.
For Private And Personal Use Only