SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६६ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः धूमं निशां कृष्णपक्षं दक्षिणायनमेव च ॥ १९५ ॥ पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम् । क्रमात्ते संभवन्तीह पुनरेव व्रजन्ति च ॥ १९६ ॥ एतद्यो न विजानाति मार्गद्वितयमात्मवान् । दन्दशूकः पतङ्गो वा भवेत्कीटोऽथवा कृमिः ॥ १९७॥ ये पुनर्विहितैर्मागैर्यज्ञदानतपोभिः स्वर्गफलभोक्तारस्ते क्रमामादिचन्द्रपर्यन्तपदार्थाभिमानिनीदेवताः प्राप्य पुनरेव वायुवृष्टिजलभूमीः प्राप्य व्रीह्याद्यन्नरूपेण शुक्रत्वमवाप्य संसारिणो योनिं व्रजन्ति । एतन्मार्गद्वयं प्रमत्तो यो न विजानाति मार्गद्वयोपायभूतधर्मानुष्ठानं न करोति असौ दन्दशूको भुजङ्गः, प. तङ्गः शलभः, कृमिः कीटो वा भवेत् ॥ १९५-१९७ ॥ उपासनाप्रकारमाह ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम् । उत्तानं किंचिदुन्नाम्य मुखं विष्टभ्य चोरसा ॥ १९८॥ निमीलिताक्षः सत्वस्थो दन्तैर्दन्तानसंस्पृशन् । तालुस्थाचलजिहश्च संवृतास्यः सुनिश्चलः ॥ १९९ ॥ संनिरुध्यन्द्रियग्रामं नातिनीचोच्छ्रितासनः । द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् ॥ २० ॥ ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः । धारयेत्तत्र चात्मानं धारणां धारयन्बुधः ॥ २०१॥ उरुस्थावुत्तानौ चरणौ यस्य स तथोक्तः बद्धपद्मासनः । तथोत्ताने सव्यकरे दक्षिणमुत्तानं न्यस्य मुखं किंचिदुन्नाम्योरसा च विष्टभ्य स्तम्भयित्वा तथा निमीलिताक्षः सत्वस्थः कामक्रोधादिरहितो दन्तैर्दन्तानसंस्पृशन् तथा तालुनि स्थिता अचला जिह्वा यस्य स तथोक्तः । तथा संवृतास्यः पिहिताननः सुनिश्चलो निष्प्रकम्पः तथा सम्यगिन्द्रियसमूह विषयेभ्यः प्रत्याहृत्य नातिनीचासनो नात्यच्छितासनो यथा चित्तविक्षेपो न भवति तथोपविष्टः सन् द्विगुणं त्रिगुणं वा प्राणायामाभ्यासमुपक्रमेत् । ततो वशीकृतपवनेन योगिना योऽसौ हृदये दीपवदप्रकम्पः प्रभुः स्थितोऽसौ ध्यातव्यः । तत्र च हृदि आत्मानं मनोगोचरतया धारयेत् । धारणामवधारयन् । धारणास्वरूपं च। जान्वयभ्रमणेन च्छोटिकादानकालो मात्रा । ताभिः पञ्चदशमात्राभिरधमः प्राणायामः। त्रिंशद्भिर्मध्यमः । पञ्चचत्वारिंशशिरुत्तमः । एवं प्राणायामत्रयात्मिकैका धारणा । तास्तिस्रो १ न्यस्येतरं करम् ङ. पाठः. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy