________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् ॥ १३२॥ किंच शरीरिणां जीवानां शरीरेषु भावा अभिप्रायविशेषाः सत्वाधुरेकतारतम्याद्यथानन्तास्तथा तत्कार्याण्यपि कुखवामनवादीनि रूपाणि देहिनां सर्वयोनिषु भवन्ति ॥ १३२॥
ननु यदि कर्मजन्यानि कुजत्वादीनि तर्हि कर्मानन्तरमेव तैर्भवितव्यमित्याशक्ष्याह
विपाकः कर्मणां प्रेत्य केषांचिदिह जायते ।
इह वामुत्र वैकेषां भावस्तत्र प्रयोजनम् ॥ १३३ ॥ केषांचिज्योतिष्टोमादिकर्मणां विपाकः फलं प्रेत्य देहान्तरे भवति । केषांचिस्कारीर्यादिकर्मणां वृष्ट्यादिफलमिहैव भवति । केषांचिच्चित्रादीनां फलं पश्चादि. कमिह देहान्तरे वेत्यनियतम् । नानन्तरमेव कर्मफलेन भवितव्यमिति शास्वार्थः । अत्र च कर्मणां शुभाशुभफलजनकत्वे सत्त्वादिभाव एव प्रयोजकभूतस्तदायत्तत्वात्फलतारतम्यस्य ॥ १३३ ॥ मनोवाक्कायकर्मजैरन्त्यादियोनीः प्राप्नोतीत्युक्तं तत्प्रपञ्चयितुमाह
परद्रव्याण्यभिध्यायंस्तथानिष्टानि चिन्तयन् ।
वितथाभिनिवेशी च जायतेऽन्त्यासु योनिषु ॥ १३४ ॥ परधनानि कथमहमपहरेयमित्याभिमुख्येन ध्यायंस्तथाऽनिष्टानि ब्रह्महत्यादीनि हिंसात्मकानि करिष्यामीति चिन्तयन् वितथे असत्यभूते वस्तुनि अभि. निवेशः पुनःपुनः संकल्पस्तद्वांश्च श्वचण्डालाद्यन्त्ययोनिषु जायते ॥ १३४ ॥
पुरुषोऽनृतवादी च पिशुनः परुषस्तथा ।
अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥ १३५ ॥ किंच । यस्त्वनृतवदनशीलः पुरुषः पिशुनः कर्णेजपः पुरुषः परोद्वेगकरभाषी अनिबद्धप्रलापी प्रकृतासङ्गतार्थवादी च बुद्धिपूर्वाबुद्धिपूर्वी दितारतम्याद्धीनोत्कृष्टेषु मृगपक्षिषु जायते ॥ १३५॥
अदत्तादाननिरतः परदारोपसेवकः। हिंसकश्चाविधानेन स्थावरेष्वभिजायते ॥१३६॥ किंच । भदत्तादाननिरतः अदत्तपरधनापहारप्रसक्तः परदारप्रसक्तश्च अविहितमार्गेण प्राणिनां घातकश्च दोषगुरुलघुभावतारतम्यात्तरुलताप्रतानादिस्थावरेषु जायते ॥ १३६ ॥ सत्वादिगुणपरिपाकमाह--
आत्मज्ञः शौचवान्दान्तस्तपस्वी विजितेन्द्रियः। १ योनितां प्राप्नोतीति ङ. २ पूर्वावृत्त्यादि. ख.
For Private And Personal Use Only