SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org यतिधर्मप्रकरणम् ४] मिताक्षरासहिता । Acharya Shri Kailassagarsuri Gyanmandir पृथिवी पादतस्तस्य शिरसो द्यौरजायत । नस्तः प्राणा दिशः श्रोत्रात्स्पर्शाद्वायुर्मुखाच्छिखी ॥ १२७॥ मनसश्चन्द्रमा जातश्चक्षुषश्च दिवाकरः । जघनादन्तरिक्षं च जगच्च सचराचरम् ।। १२८ ॥ योऽसौ सकलजीवात्मकतया प्रपञ्चात्मकतया च सहस्रात्मा बहुरूपस्तथा सकलजगद्धेतुतया आदिदेवो मया युष्माकमुदाहृतः तस्य वदनभुजसक्थिचरणजाता यथाक्रममग्रजन्मादयश्चत्वारो वर्णाः । तथा तस्य पादाद्भूमिर्मस्तकासुरसद्म घ्राणात्प्राणः कर्णात्ककुभः स्पर्शात्पवनो वदनाद्भुतवहः मनसः शशाङ्कः नेत्रा द्भानुः जघनाद्गगनं जङ्गमाजङ्गमात्मकं जगच ॥ १२६-१२८ ॥ अत्र चोदयन्ति - यद्येवं स कथं ब्रह्मन्पापयोनिषु जायते । ईश्वरः स कथं भावैरनिष्टेः संप्रयुज्यते ॥ १२९ ॥ ३५३ हे ब्रह्मन् योगीश्वर, यद्यात्मैव जीवादिभावं भजते तर्हि कथमसौ पापयोनिषु मृगपक्ष्यादिषु जायते । अथ मोहरागद्वेषादिदोषदुष्टत्वात्तत्र जन्मेत्युच्यते । तच्च न । यस्मादीश्वरः स्वतन्त्रः कथमनिष्टैर्मोहरागादिभावैः संयुज्येत ॥ १२९ ॥ तत्र पूर्व चोद्यस्योत्तरमाह करणैरन्वितस्यापि पूर्वं ज्ञानं कथंचन । वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदनाम् ॥ १३० ॥ किंच । तथेदमप्यत्र दूषणम् । मनःप्रभृतिज्ञानोपायैः सहितस्यापि तस्यात्मनः पूर्वज्ञानं जन्मान्तरानुभूतविषयं कस्मान्नोत्पद्यते । तथा सर्वप्राणिगतां वेदनां सुखदुःखादिरूपां स्वयं सर्वगोऽपि सर्वदेहगतोऽपि कस्मान्न वेत्ति | तस्मादात्मैवेश्वरो जीवादिभावं भजत इत्ययुक्तम् ॥ १३० ॥ अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः । दोषैः प्रयाति जीवोऽयं भवयोनिशतेषु च ॥ १३१ ॥ यद्यपीश्वरः स्वरूपेण सत्यज्ञानानन्दलक्षणः तथाप्यविद्यासमावेशवशान्मोहरागादिभावैरभिभूयमानो नानाहीनयोनिजननसाधनं मानसादित्रिविधं कर्मनिचमाचरति । तेन चान्त्यजादिहीनयोनितामापद्यते । अन्त्याश्चण्डालदयः, पक्षिणः काकादयः, स्थावरा वृक्षादयः तेषां भावोऽन्त्यपक्षिस्थावरता तां यथाक्रमेण मनोवाक्कायारब्धकर्म दोषैर्जन्मसहस्रेष्वयं जीवः प्राप्नोति ॥ १३१ ॥ अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् । १ तत्तज्जन्मेत्युच्यते ङ. २ करणेनान्वितस्य ख. ३ सर्वज्ञोपि ङ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy