________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
३४८
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
पुनश्वासामेव शिरादीनां शाखाप्राचुर्येण संख्यान्तरमाहएकोनत्रिंशल्लक्षाणि तथा नव शतानि च । षट्पञ्चाशच्च जानीत शिरा धमनिसंज्ञिताः ॥ १०१ ॥ शिराधमन्यो मिलिताः शाखोपशाखाभेदेन एकोनत्रिंशलक्षाणि नवशतानि षट्पञ्चाशच्च भवन्तीत्येवं हे सामश्रवःप्रभृतयः मुनयो जानीत ॥ १०१ ॥
[ प्रायश्चित्ताध्यायः
यो लक्षास्तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् । सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा ।। १०२ ॥
I
किंच । शरीरिणां श्मश्रूणि केशाश्च मिलिताः सन्तस्त्रयो लक्षा विज्ञेयाः । मर्माणि मरणकराणि क्लेशकराणि च स्थानानि तेषां सप्तोत्तरं शतं ज्ञेयम् । अस्मां तु सन्धिते स्नायुशिरादिसन्धयः पुनरनन्ताः ॥ १०२ ॥
सकलशरीरसुषिरादिसंख्यामाह
रोम्णां कोट्यस्तु पञ्चाशच्चतस्रः कोट्य एव च । सप्तषष्टिस्तथा लक्षाः सार्धाः स्वेदायनैः सह ॥ १०३ ॥ वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः ।
यद्यप्येोऽनुवेयेषां भावनां चैव संस्थितिम् ॥ १०४ ॥
पूर्वोदित शिराकेशादिसहितानां रोम्णां परमाणवः सूक्ष्मसूक्ष्मतररूपा भागाः स्वेदस्रवणसुषिरैः सह चतुःपञ्चाशत्कोव्यः तथासप्तोत्तरषष्टिलक्षाः साधः पञ्चाशत्सहस्रसहिताः वायवीयैर्विभक्ताः पवनपरमाणुभिः पृथक्कृता विगण्यन्ते । एतच्च शास्त्रदृष्ट्वाभिहितम् । चक्षुरादिकरणपथगोचरत्वाभावादस्यार्थस्य । इममतिगहनमर्थं शिरादिभावसंस्थानरूपं हे मुनयः, भवतां मध्ये यः कश्चिदनुवेत्ति सोऽपि महान् अग्रयो बुद्धिमताम् । अतो यलतो बुद्धिमता बोद्धव्या भावसंस्थितिः ॥ शारीररसादिपरिमाणमाह
रसस्य नव विज्ञेया जलस्याञ्जलयो दश । सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥ १०५ ॥ षट् श्लेष्मा पञ्च पित्तं च चत्वारो मूत्रमेव च । वसा त्रयो द्वौ तु मेदो मज्जै कोर्ध्व तु मस्तके ॥ १०६ ॥ श्लेष्मौज सस्तावदेव रेतसस्तावदेव तु । इत्येतदस्थिरं वर्ष्म यस्य मोक्षाय कृत्येसौ ॥ १०७ ॥
सम्यक्परिणताहारस्य सारो रसस्तस्य परिमाणं नवाञ्जलयः । पार्थिवपरमाणुसंश्लेषनिमित्तस्य जलस्याञ्जलयो दश विज्ञेयाः । पुरीषस्य वर्चस्कस्य सप्तैव ।
१ एकोनुवेषां ङ. २ कृति असौ इति पदच्छेदः.
For Private And Personal Use Only