________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४ ] मिताक्षरासहिता। मांसपिण्डस्तौ च दक्षिणकुक्षिगतौ, क्षुद्रानं हृत्स्थानम्, वृक्कको हृदयसमीपस्थौ मांसपिण्डौ, बस्तिर्मूत्राशयः, पुरीषाधानं पुरीषाशयः, आमाशयोऽपक्कानस्थानम् , हृदयं हृत्पुण्डरीकम् , स्थूलागुदोदराणि प्रसिद्धानि, बाह्याद्दवलयादन्तर्गुदवलये द्वे, तौ च गुदौ कौष्यो कोष्टे नाभेरधःप्रदेशे भवौ । अयंच प्राणायतनस्य विस्तार उक्तः । पूर्वश्लोके तु संक्षेपः । अतएव पूर्वश्लोकोक्तानां केषांचिदिह पाठः ॥ ९४ ॥ ९५॥ पुनः प्राणायतनप्रपञ्चार्थमाह
कनीनिके चाक्षिकूटे शकुली कर्णपत्रको । कर्णौ शङ्खौ ध्रुवौ दन्तवेष्टावोष्ठौ ककुन्दरे ॥ ९६ ॥ वसणौ वृषणौ वृकौ श्लेष्मसंघातजौ स्तनौ । उपजिह्वा स्फिजौ बाहू जडोरुषु च पिण्डका ॥ ९७ ॥ तालूदरं बस्तिशीर्ष चिबुके गलशुण्डिके। अवटश्चैवमेतानि स्थानान्यत्र शरीरके ॥ ९८॥ अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च ।
नव छिद्राणि तान्येव प्राणस्यायतनानि तु ॥९९ ॥ कनीनिके अक्षितारके, अक्षिकूटे अक्षिनासिकयोः सन्धी, शष्कुली कर्णशप्कुली, कर्णपत्रको कर्णपाल्यौ, कौँ प्रसिद्धौ, दन्तवेष्टौ दन्तपाल्यौ, ओष्टौ प्र. सिद्धौ, ककुन्दरे जधनकूपको, वङ्क्षणी जघनोरुसंधी, वृक्को पूर्वोक्ती, स्तनौ च श्लेष्मसंघातजौ, उपजिह्वा घण्टिका, स्फिजौ कटिमोथौ, बाहू प्रसिद्धौ, जङ्घोरषु च पिण्डिका जङ्घयोरूवाश्च पिण्डिका मांसलप्रदेशः, गलशुण्डिके हनुमूलगल्लयोः सन्धी, शीर्ष शिरः, अवटः शरीरे यः कश्चन निम्नो देशः कण्ठमूलकक्षादिः । अवटुरिति पाठे कृकाटिका । तथाक्ष्णोः कनीनिकयोः प्रत्येकं श्वेतं पार्थद्वयमिति वर्णचतुष्टयम् । यद्वा अक्षिपुटचतुष्टयम् । शेषं प्रसिद्धम् । एवमेतानि कुत्सिते शरीरे स्थानानि । तथाक्षियुगलं कर्णयुग्मं- नासाविवरद्वयमास्यं पायुरुपस्थमित्येतानि पूर्वोक्तानि नवच्छिन्द्राणि च प्राणस्यायतनान्येव ॥ ९६-९९ ॥
शिराः शतानि सप्तव नव स्नायुशतानि च ।
धमनीनां शते द्वे तु पञ्च पेशीशतानि च ॥१०॥ किंच। शिरा नाभिसंबद्धाश्चत्वारिंशत्संख्या वातपित्तश्लेष्मवाहिन्यः सकलकलेचरव्यापिन्यो नानाशाखिन्यः सत्यः सप्तशतसंख्या भवन्ति । तथाङ्गप्रत्यङ्गसंधिबन्धनाः स्नायवो नवशतानि । धमन्यो नाम नाभेरुद्भूताश्चतुविशतिसंख्याः प्राणादिवायुवाहिन्यः शाखाभेदेन द्विशतं भवन्ति । पेश्यः पुनौसलाकारा उरुपिण्डकाद्यङ्गप्रत्यङ्गसंधिन्यः पञ्चशतानि भवन्ति ॥ १०॥
For Private And Personal Use Only