SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः द्वौ शङ्खको कपालानि चत्वारि शिरसस्तथा । उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥ ९० ॥ किंच । भ्रूकर्णयोर्मध्यप्रदेशावस्थिविशेषौ शङ्खको । शिरसः संबन्धीनि चत्वारि कपालानि । उरो वक्षस्तत्सप्तदशास्थिकमित्येवं त्रयोविंशतिः । पूर्वोक्तैश्च सह षष्ट्यधिकं शतत्रयमित्येवं पुरुषस्यास्थिसंग्रहः कथितः ॥ ९०॥ सविषयाणि ज्ञानेन्द्रियाण्याह गन्धरूपरसस्पर्शशब्दाश्च विषयाः स्मृताः । नासिका लोचने जिह्वा त्वक् श्रोत्रं चेन्द्रियाणि च ॥९॥ एते गन्धादयो विषयाः पुरुषस्य बन्धनहेतवः । विषयशब्दस्य 'षिञ् बन्धने' इत्यस्य धातोर्युत्पन्नत्वात् । एतैश्च गन्धादिभिर्बोध्यरवेन व्यवस्थितैः स्वस्खगोचरसंवित्साधनतयानुमेयानि प्राणादीनि पञ्चेन्द्रियाणि भवन्ति ॥ ९१ ॥ कर्मेन्द्रियाणि दर्शयितुमाह हस्तौ पायुरुपस्थं च जिह्वा पादौ च पश्च वै । कर्मेन्द्रियाणि जानीयान्मनश्चैवोभयात्मकम् ॥ ९२॥ हस्तौ प्रसिद्धौ, पायुर्गुद, उपस्थं रतिसंपाद्यसुखसाधनं, जिह्वा प्रसिद्धा, पादौ च, एतानि हस्तादीनि पञ्च कर्मेन्द्रियाणि आदाननिहारानन्दव्याहारविहारादिकर्मसाधनानि जानीयात् । मनोऽन्तःकरणं युगपत् ज्ञानानुत्पत्तिगम्यं तच्च बुद्धिकर्मेन्द्रियसहकारितयोभयात्मकम् ॥ ९२ ॥ प्राणायतनानि दर्शयितुमाह नाभिरोजो गुदं शुक्रं शोणितं शङ्खको तथा। मूर्धा सकण्ठहृदयं प्राणस्यायतनानि तु ॥ ९३ ॥ नाभिप्रभृतीनि दश प्राणस्य स्थानानि । समाननाम्नः पवनस्य सकलाङ्गचा. रित्वेऽपि नाभ्यादिस्थानविशेषवाचोयुक्तिः प्राचुर्याभिप्राया ॥ ९३ ॥ प्राणायतनानि प्रपञ्चयितुमाह वपा वसावहननं नाभिः क्लोमे यकृत्प्लिहा । क्षुद्रात्रं वृक्कको बस्तिः पुरीषाधानमेव च ॥९४॥ आमाशयोऽथ हृदयं स्थूलात्रं गुद एव च । उदरं च गुदौ कौष्ठयौ विस्तारोऽयमुदाहृतः ॥ ९५ ॥ वपा प्रसिद्धा, वसा मांसस्नेहः, अवहननं फुप्फुसः, नाभिः प्रसिद्धा, प्लीहा आयुर्वेदप्रसिद्धा, तौ च मांसपिण्डाकारौ स्तः सव्यकुक्षिगतौ॥ यकृत्कालिका, क्लोम --- - १ भिप्रायेण ङ. २ क्लोमा. ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy