________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
गुरुधर्मानाह
उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ १५ ॥ स्वगृह्योक्तविधिनोपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकं वेदमध्यापयेत् । महाव्याहृतयश्च भूरादिसत्यान्ताः सप्त । पञ्च वा गौतमाभिप्रायेण । किंच शौचाचारांश्च वक्ष्यमाणलक्षणान् शिक्षयेत् । उपनीय शौचाचारांश्च शिक्षयेदित्यनेन प्रागुपनयनात्कामचारो दर्शितः। वर्णधर्मान्वर्जयित्वा स्त्रीणामप्येतत्समानं विवाहादाक् । उपनयनस्थानीयत्वाद्विवाहस्य ॥ १५ ॥ शौचाचारानाह
दिवा संध्यासु कर्णस्थब्रह्मसूत्र उदअखः ।
कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ॥१६॥ कर्णस्थं ब्रह्मसूत्रं यस्य स तथोक्तः । कर्णश्च दक्षिणः । 'पवित्रं दक्षिणे कर्णे कृत्वा विण्मूत्रमुत्सृजेत्' इति लिङ्गात् । असावहनि संध्ययोश्च उदङ्मुखो मूत्रपुरीषे कुर्यात् । चकारागस्मादिरहिते देशे । रात्रौ तु दक्षिणामुखः ॥ १६ ॥
गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतर्जलैः । __गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥ १७ ॥ किंच अनन्तरं शिश्नं गृहीत्वोत्थायोद्धृताभिरद्भिर्वक्ष्यमाणलक्षणाभिम॒द्भिश्च गन्धलेपयोः क्षयकरं शौचं कुर्यात् । अतन्द्रितोऽनलसः । उद्धृताभिरद्भिरिति जलान्तः शौचनिषेधः। अत्र गन्धलेपक्षयकरमिति सर्वाश्रमिणां साधारणमिदं शौचम् । मृत्संख्यानियमस्त्वदृष्टार्थः ॥ १७ ॥
अन्तर्जानुः शुचौ देश उपविष्ट उद खः।
प्राग्वा ब्राह्मण तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥ १८॥ शुचौ अशुचिगव्यासंस्पृष्टे । देश इत्युपादानादुपानच्छयनासनादिनिषेधः । उपविष्टो न स्थितः शयानः प्रबो गच्छन्वा । उदङ्मुखः प्रामुखो वेति दिगन्तरनिवृत्तिः । शुचौ देश इत्येतस्मात्पादप्रक्षालनप्राप्तिः । ब्राह्मण तीर्थेन वक्ष्यमाणलक्षणेन । द्विजो न शूद्रादिः । नित्यं सर्वकालमाश्रमान्तरगतोऽपि । उपस्पृशेदाचामेत् । कथम् । अन्तर्जानुः जानुनोर्मध्ये हस्तौ कृत्वा दक्षिणेन हस्तेनेति ॥१८॥ प्राजापत्यादितीर्थान्याह
कनिष्ठादेशिन्यपृष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥ १९ ॥ १ शिष्यं गुरुः ख. २ शाचमिदं ख. ३ इत्युपानत् क.
For Private And Personal Use Only