________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्रह्मचारिप्रकरणम् २] मिताक्षरासहिता ।
षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च ॥११॥ अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥ १२ ॥ गर्भाधानमित्यनुगतार्थ कर्मनामधेयम् । एवं वक्ष्यमाणान्यपि । तद्गर्भाधानमृतौ ऋतुकाले वक्ष्यमाणलक्षणे । पुंसवनाख्यं कर्म गर्भचलनात्पूर्वम् । षष्ठेऽष्टमे वा मासि सीमन्तोन्नयनम् । एते च पुंसवनसीमन्तोनयने क्षेत्रसंस्कारकर्मत्वासकृदेव कार्ये न प्रतिगभम् । यथाह देवल:--'सकृच्च संस्कृता नारी सर्वगर्भेषु संस्कृता । यं यं गर्भ प्रसूयेत स सर्वः संस्कृतो भवेत्' इति । यद्वा एते आ इते आगते गर्भकोशाजाते कुमारे जातकर्म । एकादशेऽहनि नाम । तच्च पितामहमातामहादिसंबद्धं कुलदेवतासंबद्धं वा । यथाह शङ्ख:-'कुलदेवतासंबद्धं पिता नाम कुर्यात्' इति । चतुर्थे मासि निष्क्रमणलक्षणं सूर्यावेक्षणं कर्म । षष्ठे मास्यप्राशनं कर्म । चूडाकरणं तु यथाकुलं कार्यमिति प्रत्येकं संबध्यते ॥ ११ ॥१२॥ एतेषां नित्यत्वेऽप्यानुषङ्गिकं फलमाह
एवमेनः शमं याति बीजगर्भसमुद्भवम् । एवमुक्तेन प्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः कृतैरेनः पापं शर्म याति । किंभूतम् । बीजगर्भसमुद्भवं शुक्रशोणितसंबद्धं गात्रव्याधिसंक्रान्तिनिमित्तं वा नतु पतितोत्पनस्वादि ॥ स्त्रीणां विशेषमाह
तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समत्रकः ॥ १३ ॥ एता जातकर्मादिकाः क्रियाः स्त्रीणां तूष्णीं विनैव मन्त्रैर्यथाकालं कार्याः । विवाहः पुनः समन्त्रकः कार्यः ॥ १३ ॥ उपनयनकालमाह
गर्भाष्टमेष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञामेकादशे सैके विशामेके यथाकुलम् ॥ १४ ॥ गर्भाधानमादिं कृत्वा जननं वाष्टमे वर्षे ब्राह्मणस्योपनायनं उपनयनमेवोपनायनम् । स्वार्थे अण वृत्तानुसारात् । छन्दोभङ्गात् । भाष वा दीर्घत्वम् । अत्रेच्छया विकल्पः । राज्ञामेकादशे । विशां वैश्यानां सैके एकादशे। द्वादशे इत्यर्थः । गर्भग्रहणं सर्वत्रानुवर्तते । समासे गुणभूतस्यापि गर्भशब्दस्य बुद्ध्या विभज्योभयत्राप्यनुवर्तनं कार्यम् । 'गर्भादेकादशे राज्ञो गर्भाद्धि द्वादशे विशः' इति स्मृ. त्यन्तरदर्शनात् । यथा भथ शब्दानुशासनं केषां शब्दाना लौकिकानां वैदिकानामिति । अत्रापि कार्यमित्यनुवर्तते । कुलस्थित्या केचिदुपनयनमिच्छन्ति ॥१४॥
१ कुमारे जाते ख. २ नामकरणम्' ख. ३ अवधिं कृत्वा जन्मनो ख. ४ प्रकरणानुसारम् क. ५ वचनात् ख. ६ शब्दानामिति क.
For Private And Personal Use Only