________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[आचाराध्यायः
चात्मनः प्रियं, वैकल्पिके विषये यथा 'गर्भाष्टमेऽष्टमे वादे' इत्यादावारमेच्छैव नियामिका । सम्यक्संकल्पाजातः कामः शास्त्राविरुद्वो यथा 'मया भोजनव्यतिरेकेणोदकं न पातव्यम्' इति । एते धर्मस्य मूलं प्रमाणम् । एतेषां विरोधे पूर्वपूर्वस्य बलीयस्त्वम् ॥ ७ ॥ देशादिकारकहेतूनामपवादमाह
इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥८॥ इज्यादीनां कर्मणामयमेव परमो धर्मः यद्योगेन बाह्यचित्तवृत्तिनिरोधेनास्मनो दर्शनं याथातथ्यज्ञानम् । योगेनात्मज्ञाने देशादि नियमो नास्तीत्यर्थः । तदुक्तं 'यत्रैकाग्रता तत्राविशेषात्' इति पातञ्जले ॥ ८॥ । कारकहेतुषु ज्ञापकहेतुषु वा संदेहे निर्णयहेतूनाह
चत्वारो वेदधर्मज्ञाः पर्षत्रैविद्यमेव वा।
सा ब्रूते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः ॥९॥ चत्वारो ब्राह्मणाः वेदधर्मशास्त्रज्ञाः पर्षत् । तिस्रो विद्या अधीयन्त इति त्रैविद्यास्तेषां समूहस्त्रैविद्यम् । धर्मशास्त्रज्ञत्वमन्त्राप्यनुवर्तते तद्वा पर्षत् । सा पूर्वोक्ता पर्षत् यं ब्रूते स धर्मः । अध्यात्मज्ञानेषु निपुणतमो धर्मशास्त्रज्ञश्च एकोऽपि वा यं ब्रूते सोऽपि धर्म एव ॥ ९॥
इत्युपोद्धातप्रकरणम् ।
अथ ब्रह्मचारिप्रकरणम् २ एतैर्नवभिः श्लोकैः सकलशास्त्रोपोद्भातमुक्त्वा इदानीं वर्णादीनां धर्मान्वक्तुं प्रथमं तावद्वर्णानाह
ब्रह्मक्षत्रियविशुद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । निषेकाद्याः श्मशानान्तास्तेषां वै मत्रतः क्रियाः ॥१०॥ ब्राह्मणक्षत्रियवैश्यशूदाश्चत्वारो वर्णा वक्ष्यमाणलक्षणास्तेषामाद्यास्त्रयो ब्राह्मणक्षत्रियवैश्या द्विजाः द्विर्जायन्त इति द्विजाः तेषां द्विजानां वै एव न शूद्रस्य । निषेकाद्याः निषेको गर्भाधानमाद्यो यासां तास्तथोक्ताः । श्मशानं पितृवन तत्संबन्धि कर्म अँन्ते यासां ताः क्रिया मन्त्रैर्भवन्ति ॥ १० ॥ इदानी ताः क्रिया अनुक्रामति
गर्भाधानमृतौ पुंसः सवनं स्यन्दनात्परा । १ इत्यत्रात्मेच्छैव, इत्यादिष्वात्मेच्छैव ख. २ शास्त्राविरुद्धः कामो यथा ख. ३ वेदशास्त्रधर्मशाः ख. ४ वेदधर्मशास्त्रज्ञश्च ख. ५ सोपि धर्मः ख. ६ न शूदाणां क. ७ अन्तो यासां क
For Private And Personal Use Only