________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
याज्ञवल्क्यस्मृतिः ।
Acharya Shri Kailassagarsuri Gyanmandir
३४०
यद्यपि जीवपरमात्मनोः पारमार्थिको भेदो नास्ति तथाप्यात्मनः सकाशादविद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति हि यस्मात् तस्माद्युज्यत एव जीवपरमात्मनोर्भेदव्यपदेशः । यथाहि तप्ताल्लोहपिण्डादयो गोलकाद्विस्फुलिङ्गकास्तेजोवयवा निःसरन्ति निःसृताश्च स्फुलिङ्गव्यपदेशं लभन्ते तद्वत् । अत उपपनं आत्मात्मनि स्थितो द्रष्टव्य इति । यद्वायमर्थः । ननु सुषुप्तिसमये प्रलये च सकल क्षेत्रज्ञानां ब्रह्मणि प्रलीनत्वात्कस्यायमात्मोपासना विधिरित्यत आहनिःसरन्तीत्यादि । यद्यपि सूक्ष्मरूपेण प्रलयवेलायां प्रलीनास्तथाप्यात्मनः सकाशादविद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति, पुनः कर्मवशात्स्थूलशराभिमानिनो जायन्ते, तस्मान्नोपासनाविधिविरोधः तैजसस्य पृथग्भावसाम्याल्लोहपिण्डदृष्टान्तः ॥ ६७ ॥
[ प्रायश्चित्ताध्यायः ।
ननु चानुपात्तवपुषां क्षेत्रज्ञानां निष्परिस्पन्दतया कथं तन्निबन्धनो जरायुजाण्डजादिचतुर्विधदेहपरिग्रह इत्यत आह
तत्रात्मा हि स्वयं किंचित्कर्म किंचित्स्वभावतः | करोति किंचिदभ्यासाद्धर्माधर्मोभयात्मकम् ॥ ६८ ॥
यद्यपि तस्यामवस्थायां परिस्पन्दात्मकक्रियाभावस्तथापि धर्माधर्माध्यवसायात्मकं कर्म मानसं भवत्येव । तस्य च विशिष्टशरीरग्रहणहेतुत्वमस्त्येव । ( १२१९ ) - वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम्' इति मनुस्मरणात् । एवं गृहीतवपुः स्वयमेवान्वयव्यतिरेक निरपेक्षः, स्तन्यपानादिके कृते तृप्तिर्भवत्यकृते न भवतीत्येवंरूपौ यावन्वयव्यतिरेकौ तत्र निरपेक्षं प्राग्भवीयानुभव भावितभावनानुभावोद्भूतकार्यावबोधः किंचितस्तन्यपानादिकं करोति, किंचित्स्वभावतो यदृच्छया प्रयोजनाभिसंधिनिरपेक्षं पिपीलिकादिभक्षणं करोति, किंचिद्भवान्तराभ्यासवशाद्धर्माधर्मोभयरूपं करोति । तथाच स्मृत्यन्तरम् -' प्रतिजन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तदेवाभ्यसते पुनः ॥' इति ॥ एवं जीवानां कर्मवैचित्र्यं तत्कृतं जरायुजादिदेहवैचित्र्यं युज्यत एव ॥ ६८ ॥ नन्वेवं सति ब्राह्मण एव कथंचिज्जीवव्यपदेश्यत्वात्तस्य च नित्यत्वादिधर्मत्वात्कथं विष्णुमित्रो जात इति व्यवहार इत्याशङ्कयाह
निमित्तमक्षरः कर्ता बोद्धा ब्रह्म गुणी वशी ।
अजः शरीरग्रहणात्स जात इति कीर्त्यते ॥ ६९ ॥ .
सत्यमात्मा सकलजगत्प्रपञ्चाविर्भावेऽविद्यासमावेशवशात्समवाय्यसमवायिनिमित्तमित्येवं स्वयमेव त्रिविधमपि कारणं न पुनः कार्यकोटिनिविष्टः । यस्मादक्षरोऽविनश्वरः । ननु सत्वादिगुणविकारस्य सुखदुःखमोहात्मकस्य कार्य भूते जगत्प्रपञ्चे दर्शनात्तद्गुणवत्याः प्रकृतेरेव जगत्कर्तृतोचिता न पुनर्निर्गुणस्य ब्रह्मणः । मैवं मंस्थाः । आत्मैव कर्ता । यस्मादसौ जीवोपभोग्यसुखदुःखहेतुं भूतादृष्टा दे
I
१ स्पन्दतया कथं ख. २ हेतुपुण्यापुण्यादेर्बोद्धा ङ.
For Private And Personal Use Only