________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४] मिताक्षरासहिता ।
बौद्धा । नह्यचेतनायाः प्रकृतेर्नामरूपव्याकृत विचित्र भोक्तृवर्गभोगानुकूलभोग्यभोगायतना दियोगिजगत्प्रपञ्च रचना घटते । तस्मादात्मैव कर्ता । तथा स एव ब्रह्म बृंहको विस्तारकः । नचासौ निर्गुणः । यतस्तस्य त्रिगुणशक्तिरविद्या प्रकृतिप्रधानाद्यपरपर्याया विद्यते । अतः स्वतो निर्गुणत्वेऽपि शक्तिमुखेन सत्वादिगुणयोगी कथ्यते । नचैतावता प्रकृतेः कारणता, यस्मादात्मैव वशी स्वतन्त्रः न प्रकृतिर्नाम स्वतन्त्रं तत्त्वान्तरं तादृग्विधवे प्रमाणाभावात् । नच वचनीयं शक्तिरूपापि सैव कर्तृभूतेति । यतः शक्तिमत्कारकं न शक्तिः, तस्मादात्मैव जगतस्त्रिविधमपि कारणम् । तथा अज उत्पत्तिरहितः । अतस्तस्य यद्यपि साक्षाज्जननं नोपपद्यते तथापि शरीरग्रहणमात्रेण जात इत्युच्यते अवस्थान्तरयोगितयोत्पत्तेगृहस्थो जात इतिवत् ॥ ६९ ॥
शरीरग्रहणप्रकारमाह
सर्गादौ स यथाकाशं वायुं ज्योतिर्जलं महीम् । सृजत्येकोत्तरगुणांस्तथादत्ते भवन्नपि ॥ ७० ॥
सृष्टिसमये स परमात्मा यथाकाशादीन् शब्दैकगुणं गगनं, शब्दस्पर्शगुणः पवनः, शब्दस्पर्शरूपगुणं तेजः, शब्दस्पर्शरूपरसगुणवदुदकम्, शब्दस्पर्शरूपरसगन्धगुणा जगतीत्येवमेकोत्तरगुणान् सृजति । तथात्मा जीवभावमापन्नो भवन्नुत्पद्यमानोऽपि स्वशरीरस्यारम्भकत्वेनापि गृह्णाति ॥ ७० ॥
कथं शरीरारम्भकत्वं पृथिव्यादीनामित्यत आह
आहुत्याप्यायते सूर्यः सूर्याद्वृष्टिरथौषधिः ।
३४१
तदन्नं रसरूपेण शुक्रलमधिगच्छति ॥ ७१ ॥
यजमानैः प्रक्षिप्तयाहुत्या पुरोडाशादिरसेनाप्यायते सूर्यः । सूर्याच्च कालवशेन परिपक्वा ज्यादिहवीरसादृष्टिर्भवति । ततो ब्रीह्माद्यौषधिरूपमन्नम् । तच्चान्नं सेवितं सत् रसरुधिरादिक्रमेण शुक्रशोणितभावमापद्यते ॥ ७१ ॥
ततः किमित्यत आह
स्त्रीपुंसयोस्तु संयोगे विशुद्धे शुक्रशोणिते । पञ्चधातून्खयं षष्ठ आदत्ते युगपत्प्रभुः ॥ ७२ ॥
ऋतुवेलायां स्त्रीपुंसयोर्योगे शुक्रं च शोणितं च शुक्रशोणितं तस्मिन्परस्परसंयुक्ते विशुद्धे 'वातपित्तश्लेष्म दुष्टग्रन्थिपूयक्षीण मूत्रपुरीषगन्धरे तांस्य बीजानि ' इति स्मृत्यन्तरोक्तदोषरहिते स्थित्वा पञ्चधातून् पृथिव्यादिपञ्चमहाभूतानि श रीरारम्भकतया स्वयं षष्ठश्रिद्धातुरात्मा प्रभुः शरीरारम्भकारणादृष्टकर्मयोगितया समर्थो युगपदादत्ते योगायतनत्वेन स्वीकरोति' । तथाच शारीरके - 'स्त्रीपुंसयोः संयोगे योनौ रजसामिसंसृष्टं शुकं तत्क्षणमेव सह भूतात्मना गुणैश्च सत्वरजस्तमोभिः सह वायुना प्रेर्यमाणं गर्भाशये तिष्ठति' इति ॥ ७२ ॥
१ रसवदुदकम् ख २ रम्भकरणे दुष्ट ख.
For Private And Personal Use Only