SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतिधर्मप्रकरणम् ४ ] मिताक्षरासहिता । श्वसूकरखरोरगायनेकजातिषु भव उत्पत्तिः । तथा इष्टस्याप्राप्तिः अनिष्टस्य प्राप्तिरित्यादिबहुतरक्लेशावहं संसारस्वरूपं पर्यालोच्य तत्परिहारार्थमात्मज्ञानोपायभूतेन्द्रियजये प्रयतेत ॥ ६३ ॥ एवमवेक्ष्यानन्तरं किं कार्यमित्यत आह ध्यानयोगेन संपश्येत्सूक्ष्म आत्मात्मनि स्थितः ॥ ६४॥ योगश्चित्तवृत्तिनिरोधः आस्मैकाग्रता ध्यानं तस्या एव बाह्यविषयत्वोपरमः ध्यानयोगेन निदिध्यासतापरपर्यायेण सूक्ष्मशरीरप्राणादिव्यतिरिक्तः क्षेत्रज्ञ आत्मा आत्मनि ब्रह्मण्यवस्थितः इत्येवं तत्वंपदार्थयोरभेदं सम्यक् पश्येदपरो. क्षीकुर्यात् । अतएव श्रुतौ 'मात्मा वारे द्रष्टव्यः' इति साक्षात्काररूपं दर्शनमनूद्य तत्साधनत्वेन 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रवणमनन निदिध्यासनानि विहितानि ॥ ६ ॥ नाश्रमः कारणं धर्मे क्रियमाणो भवेद्धि सः । अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत् ॥६५॥ किंच । प्राक्तनश्लोकोक्तात्मोपासनाख्ये धर्मे नाश्रमो दण्डकमण्डल्वादिधारण कारणम् । यस्मादसौ क्रियमाणो भवे देव नातिदुष्करः। तस्माद्यदात्मनोऽपथ्यमुद्वेगकरं परुषभाषणादि तत्परेषां न समाचरेत् । अनेन ज्ञानोत्पत्तिहेतुभूतान्त:करणशुद्ध्यापादनत्वेनान्तरङ्गत्वाद्रागद्वेषप्रहाणस्य प्रधानरवेन प्रशंसार्थमाश्रमनिराकरणं न पुनस्तत्परित्यागाय तस्यापि विहितत्वात् । तदुक्तं मनुना (६॥ ६६)-'दूषितोऽपि चरेद्धर्म यत्र तत्राश्रमे वसन् । समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥' इति ॥ ३५॥ सत्यमस्तेयमक्रोधो हीः शौचं धीतिर्दमः । संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः॥ ६६ ।। किंच । सत्यं यथार्थप्रियवचनम् । अस्तेयं परद्रव्यानपहारः । अक्रोधोऽपकारिण्यपि क्रोधस्यानुत्पादनम् । हीर्लजा । शौचमाहारादिशुद्धिः । धीहिताहितविवेकः । तिरिष्टवियोगेऽनिष्टप्राप्तौ प्रचलितचित्तस्य यथापूर्वमवस्थापनम् । दमो मद त्यागः । संयतेन्द्रियता अप्रतिषिद्धेष्वपि विषयेष्वनतिसङ्गः । विद्या आत्मज्ञानम् । एतैः सत्यादिभिरनुष्ठितः सर्वो धर्मोऽनुष्ठितो भवति । अनेन द. ण्डकमण्डल्वादिधारणबाह्यलक्षणात्सत्यादीनामारमगुणानामन्तरङ्गतां द्योतयति ॥ ननु ध्यानयोगेनात्मनि स्थितमात्मानं पश्येदित्ययुक्तं जीवपरमात्मनोर्भेदाभावादित्यत आह-- निःसरन्ति यथा लोहपिण्डात्तप्तात्स्फुलिङ्गकाः। सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि ॥ ६७ ॥ For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy