SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतिधर्मप्रकरणम् ४] मिताक्षरासहिता। ३३५ अथ यतिधर्मप्रकरणम् ४ वैखानसधर्माननुक्रम्य क्रमप्राप्तान्परिव्राजकधर्मान्सांप्रतं प्रस्तौतिवनाद्गृहाद्वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् । प्राजापत्यां तदन्ते ताननीनारोप्य चात्मनि ॥५६॥ अधीतवेदो जपकृत्पुत्रवानन्नदोऽग्निमान् । शक्त्या च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा ॥ ५७ ॥ यावता कालेन तीव्रतपःशोषितवपुषो विषयकषायपरिपाको भवति पुनश्च मदोद्भवाशङ्का नोद्भाव्यते तावत्कालं वनवासं कृत्वा तत्समनन्तरं मोक्षे मनः कुर्यात् । वनगृहशब्दाभ्यां तरसंबन्ध्याश्रमो लक्ष्यते । मोक्षशब्देन च मोक्षकफलकश्चतुर्थाश्रमः ॥ अथवा गृहागार्हस्थ्यादनन्तरं मोक्षे मनः कुर्यात् । अनेन च पूर्वोक्तश्चतुराश्रमसमुच्चयपक्षः पाक्षिक इति द्योतयति । तथाच विकल्पो जाबालश्रुतौ श्रूयते-'ब्रह्मचर्य परिसमाप्य गृही भवेत् गृही भूत्वा वनी भवेत् वनी भूत्वा प्रवजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रवजेत् गृहाद्वा वनाद्वा' इति । तथा गार्हस्थ्योत्तराश्रमबाधश्च गौतमेन दर्शितः-'ऐकाश्रयं त्वाचा. र्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्य' इति । एतेषां च समुच्चयविकल्पबाधपक्षाणां सर्वेषां श्रुतिमूलत्वादिच्छया विकल्पः । अतो यस्कैश्चित्पण्डितंमन्यैरुक्तम्-'स्मार्तत्वान्नैष्टिकरवादीनां गार्हस्थ्येन श्रौतेन बाधः गार्हस्थ्यानधिकृतान्धक्लीवादिविषयता वा' इति तत्स्वाध्यायाध्ययनवैधुर्यनिबन्धनमित्युपेक्षणीयम् । किंच-यथा विष्णुक्रमणाज्यावेक्षणाधक्षमतया पंग्वादीनां श्रौतेष्वनधिकारस्तथा सार्तेष्वप्युदकुम्भाहरणमिक्षाचर्यादिष्वक्षमत्वात्कथं पंग्वादिविषयतया नैष्ठिकत्वाद्याश्रमनिर्वाहः अस्मिंश्वाश्रमे ब्राह्मणस्यैवाधिकारः । मनुः (६२५)-'आस्मन्यनीन्समारो. प्य ब्राह्मणः प्रव्रजेद्गृहात् ।' तथा (६।९७)-'एष वोऽमिहितो धर्मो ब्राह्मणस्य चतुर्विधः' इत्युपक्रमोपसंहाराभ्यां मनुना ब्राह्मणस्याधिकारप्रतिपादनात् । 'ब्राह्मणाः प्रव्रजन्ति' इति श्रुतेश्चाग्रजन्मन एवाधिकारो न द्विजातिमात्र. स्य । अन्ये तु त्रैवर्णिकानां प्रकृतत्वात् 'त्रयाणां वर्णानां वेदमधीय चरवार आश्रमाः' इति सूत्रकारवचनाच द्विजातिमात्रस्याधिकारमाहुः ॥ यदा वनागृहा. द्वा प्रव्रजति तदा सार्ववेदसदक्षिणां सार्ववेदसी सर्ववेदसंबन्धिनी दक्षिणा यस्याः सा तथोक्ता तां प्रजापतिदेवताकामिष्टिं कृत्वा तदन्ते तान्वैतानाननीनात्मनि श्रुत्युक्तविधानेन समारोप्य । चशब्दात् 'उदगयने पौर्णमास्यां पुरश्चरणमादौ कृत्वा शुद्धेन कायेनाष्टौ श्राद्धानि निर्वपेत् द्वादश वा' इति बौधायनायुक्तं पुरश्चरणादिकं च कृत्वा तथापीतवेदो जपपरायणो जातपुत्रो दीनान्धकृपणार्पितार्थों यथाशक्त्यान्नदश्च भूत्वाऽनाहिताग्निज्येष्ठत्वादिना प्रतिबन्धाभावे कृताधानो १ वानप्रस्थधर्मात् ङ. २ गाईस्थ्योत्तराश्रम. ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy