________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
( ६ । २५ ) - ' अग्नीनात्मनि वैतानान्समारोप्य यथाविधि । अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः ॥' इति । मुनिर्मौनव्रतयुक्तः । फलमूलासंभवे च यावत्प्राणधारणं भवति तावन्मात्रं भैक्षं वानप्रस्थगृहेष्वाचरेत् ॥ ५४ ॥
यदा तु तदसंभवो व्याध्यभिभवो वा तदा किं कार्यमित्यत आह
ग्रामादाहृत्य वा ग्रासानष्टौ भुञ्जीत वाग्यतः ।
ग्रामाद्वा भैक्षमाहृत्य वाग्यतो मौनी भूत्वा अष्टौ ग्रासान्भुञ्जीत । ग्राम्यभैक्षविधानान्मुन्यन्ननियमोsर्थलुप्तः । यदा पुनरष्टभिर्मासैः प्राणधारणं न संभवति तदा 'अष्टौ मासामुनेर्भेक्षं वानप्रस्थस्य षोडशे 'ति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥
१ वीराधानं ङ.
MEZNEGA
सकलानुष्ठानासमर्थं प्रत्याह
वायुभक्षः प्रागुदीचीं गच्छेदा वर्ष्मसंक्षयात् ॥ ५५ ॥
अथवा वायुरेव भक्षो यस्यासौ वायुभक्षः प्रागुदीचीमैशानीं दिशं गच्छेत् । आवर्ष्मसंक्षयात् वर्ष्म वपुस्तस्य निपातपर्यन्तमकुटिलगतिर्गच्छेत् । यथाह मनुः - ( ६।३१ ) - 'अपराजितां वास्थाय गच्छेद्दिशमजिह्यागः' इति । महाप्रस्थानेऽप्यशक्तौ भृगुपतनादिकं वा कुर्यात् । - ' वानप्रस्थो वीराध्वानं ज्वलना
प्रवेशनं भृगुपतनं वानुतिष्ठेत्' इति स्मरणात् । स्नानाचमनादिधर्मा ब्रह्मचारिप्रकरणाद्यभिहिताश्चाविरोधिनोऽस्यापि भवन्ति । - ' उत्तरेषां चैतदविरोधि' इति गौतमस्मरणात् । एवं प्रागुदितेन्दवादिदी शामहाप्रस्थानपर्यन्तं तनुत्यागान्तमनुतिष्ठन् ब्रह्मलोके पूज्यतां प्राप्नोति । यथाह मनुः ( ६।३२ ) - 'आसां महर्षिचर्याणां त्यक्त्वाऽन्यतमया तनुम् । वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥' इति । ब्रह्मलोकः स्थानविशेषो नतु नित्यं ब्रह्म । तत्र लोकशब्दस्याप्रयोगात् । तुरीयाश्रममन्तरेण मुक्त्यनङ्गीकाराच्च । नच 'योगाभ्यासेन वा पुनः' इति ब्रह्मोपासनविध्यनुपपत्त्या तद्भावापत्तिः परिशङ्कनीया । सालोक्यादिप्राहयर्थत्वेनापि तदुपपत्तेः । अतएव श्रुतौ 'त्रयो धर्मस्कन्धा' इत्युपक्रम्य 'यज्ञोऽध्ययनं दानमिति प्रथमः, तप एवेति द्वितीयः, ब्रह्मचर्याचार्यकुलवासी तृतीयः । अत्यन्तमाचार्यकुल एवमात्मानमवसादयन्निति गार्हस्थ्यवानप्रस्थनैष्ठिकत्व स्वरूपमभिधाय सर्व एते पुण्यलोका भवन्तीति त्रयाणामाश्रमिणां पुण्यलोकप्राप्तिमभिधाय ब्रह्मसंस्थोऽमृतत्वमेति' इति पारिशेष्यात्परिब्राजकस्यैव ब्रह्मसंस्थस्य मुक्तिलक्षणामृतत्वप्राप्तिरभिहिता । यदपि 'श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते' इति गृहस्थस्यापि मोक्षप्रतिपादनं तद्भवान्तरानु भूतपारिव्रज्यस्येत्यवगन्तव्यम् ॥ ५५ ॥
इति वानप्रस्थधर्मप्रकरणम् ।
For Private And Personal Use Only