________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३२
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः पुनर्मेध्यग्रहणं यज्ञाहव्रीह्यादिप्राप्त्यर्थं कृतम् । मेधो यज्ञस्तदह मेध्यमिति । तथा श्मश्रूणि मुखजानि रोमाणि जटारूपांश्च शिरोरुहान्कक्षादीनि च रोमाणि बिभृयात् । रोमग्रहणं नखानामप्युपलक्षणम् । तथाच मनुः-'जटाश्च विभृयानित्यं श्मश्रुलोमनखांस्तथा' इति । तथात्मवानात्मोपासनाभिरतः स्यात् ॥ ४६॥ पूर्वोक्तद्रव्यसंचयनियममाह
अह्नो मासस्य पण्णां वा तथा संवत्सरस्य वा ।
अर्थस्य संचयं कुर्यात्कृतमाश्वयुजे त्यजेत् ॥४७॥ एकस्याह्नः संबन्धि भोजनयजनादिदृष्टादृष्टकर्मणः पर्याप्तस्थार्थस्य संचयं कुर्यात् । मासस्य वा षण्णां मासानां वा संवत्सरस्य वा संबन्धि कर्मपर्याप्तं संचयं कुर्यात् नाधिकम् । यद्येवं क्रियमाणमपि कथंचिदतिरिच्यते तर्हि तदतिरिक्तमा. श्वयुजे मासि त्यजेत् ॥ ४७ ॥
दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् ।
स्वाध्यायवान्दानशीलः सर्वसत्वहिते रतः॥४८॥ किंच । दान्तो दर्परहितः । त्रिषु सवनेषु प्रातमध्यदिनापराह्नेषु स्वानशीलः । तथा प्रतिग्रहे पराङ्मुखः । चशब्दाद्याजनादिनिवृत्तश्च । स्वाध्यायवान् वेदाभ्यासरतः । तथा फलमूलमिक्षादिदानशीलः सर्वप्राणिहिताचरणनिरतश्च भवेत् ४८
दन्तोलूखलिकः कालपकाशी वाश्मकुट्टकः।
श्रौत्रं सात फलस्नेहैः कर्म कुर्यात्तथा क्रियाः॥४९॥ किंच । दन्ता एवोलूखलं निस्तुपीकरणसाधनं दन्तोलूखलं तद्यस्यास्ति स दन्तोलूखलिकः। कालेनैव पक्कं कालपकं नीवारवेणुश्यामाकादि बदरेमुदादिफलं च तदशनशीलः कालपक्काशी । वाशब्दः 'अग्निपक्काशनोवा स्यात्कालपक्कभुगेव वा' इति मनूक्ताग्निपक्काशित्वाभिप्रायः। अश्मकुट्टको वा भवेत् । अश्मना कुट्टनमवहननं यस्य स तथोक्तः । तथा श्रौत्रं स्मात च कर्म दृष्टार्थाश्व भोजनाभ्यञ्जनादिक्रियाः लकुचमधूकादिमेध्यतरुफलोद्भवैः स्नेहद्रव्यैः कुर्यान तु घृतादिकैः । तथाच मनुः (६।१३)-'मेध्यवृक्षोद्भवानद्यात्स्नेहांश्च फलसंभवान्' इति ४९ पुरुषार्थतया विहितद्विर्भोजननिवृत्त्यर्थमाह
चान्द्रायणै येत्कालं कृच्छ्रे, वर्तयेत्सदा ।
पक्षे गते वाप्यश्नीयान्मासे वाहनि वा गते ॥ ५० ॥ चान्द्रायणैर्वक्ष्यमाणलक्षणैः कालं नयेत् । कृच्छ्रेर्वा प्राजापत्यादिभिः कालं वर्तयेत् । यद्वा पक्षे पञ्चदशदिनात्मकेऽतीतेऽश्नीयात् । मासे वाऽहनि गते वा नक्तमश्नीयात् । अपिशब्दाचतुर्थकालिकत्वादिनापि । यथाह मनुः ( ६।१९)
For Private And Personal Use Only