________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३०
याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः
राजा धर्मादनपेतां वृत्तिं प्रकल्पयेत् । अन्यथा तस्ये दोषः । तथाच मनुः ( ७ । १३४ ) -- 'यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा । तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधिपीडितम् ॥' इति ॥ ४४ ॥
इत्यापद्धर्मप्रकरणम् ।
अथ वानप्रस्थधर्मप्रकरणम् ३
चतुर्णामाश्रमिणां मध्ये ब्रह्मचारिगृहस्थयोर्धर्माः प्रतिपादिताः । सांप्रतमवसरप्राप्तान्वानप्रस्थधर्मान्प्रतिपादयितुमाह
सुतविन्यस्तपत्नीकस्तया वानुगतो वनम् ।
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥ ४५ ॥
वने प्रकर्षेण नियमेन च तिष्ठति चरतीति वनप्रस्थः वनप्रस्थ एव वानप्रस्थः । संज्ञायां दैर्घ्यम् । भाविनीं वृत्तिमाश्रित्य वनं प्रतिष्ठासुरिति यावत् । असौ सुतविन्यस्तपत्नीकः त्वयेयं भरणीयेत्येवं सुते विन्यस्ता विक्षिप्ता पत्नी येन स तथोक्तः । यदि सा पतिपरिचर्याभिलाषेण स्वयमपि वनं जिगमिषति तदा तयानुगतो वा सहितः । तथा ब्रह्मचारी ऊर्ध्वरेताः साग्निवैतानाग्निसहितः तथा सोपासनो गृह्याग्निसहितश्च वनं व्रजेत् । सुतविन्यस्तपत्नीक इति वदता कृतगाईस्थ्यो वैनवासेऽधिक्रियत इति दर्शितम् । एतच्चाश्रमसमुच्चयपक्षमङ्गीकृत्योक्तम् । इतरथा 'अविलुतब्रह्मचर्यो यमिच्छेत्तु तमावसेत्' इत्यकृतगार्हस्थ्योsपि वनवासेऽधिक्रियत एव । अयं च वनप्रवेशो जराजर्जरकलेवरस्य जातपौत्रस्य वा । यथाह मनुः ( ६।२) 'गृहस्थस्तु यदा पश्येद्वली पलितमात्मनः । अपत्यस्यैव वापत्यं तदारण्यं समाश्रयेत् ॥' इति । अयं च पुत्रेषु पत्नीनिक्षेपो विद्यमानभार्यस्य । मृतभार्यस्याप्यापस्तम्बादिभिः वनवासस्मरणात् । अतो यत् दाहयित्वाग्निहोत्रेणेति पुनराधानविधानं तदपरिपक्ककषायविषयम् । साग्निः सोपासन इत्यत्रापि यैदार्घाधानं कृतं तदा श्रौताग्निभिर्गृह्येण च सहितो वनं व्रजेत् । सर्वाधाने तु श्रीतैरेव केवलम्। यदि कथंचिज्येष्ठ भ्रातुरनाहिताग्नित्यादिना श्रोताग्नयोऽनाहितास्तर्हि केवलं सोपासनो व्रजेदित्येवं विवेचनीयम् । अग्निनयनं च तन्निर्वर्त्यग्निहोत्रादिकर्मसिद्ध्यर्थम् । अतएव मनुः ( ६ । ९ ) 'वैतानिकं च जुहुयादग्निहोत्रं यथाविधि । देर्शमस्कन्दयन्पर्व पौर्णमासं च शक्तितः ॥' इति ॥ ननुच पुत्रनिक्षिप्सपलीकस्य तद्विरहिणः कथमग्निहोत्रादिकर्मानुष्ठानं घटते । पल्या सह यष्टव्यमिति सहाधिकारनियमात् सत्यमेवं, किंत्वन पत्नीनिक्षेपविधि
१ राज्ञोदोषः ङ. २ वानप्रस्थो वनवासे. ख. ३ अर्धाधानं स्मृतं श्रौतस्मार्ता:योस्तु पृथक्कृतिः । सर्वाधानं तयोरैक्यक्कृतिः पूर्वयुगाश्रया । त्रेतापरिग्रहः सर्वाधानम्. ४ दर्शमास्कन्दयन् ग. ङ.
For Private And Personal Use Only