________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आपद्धर्मप्रकरणम् २] मिताक्षरासहिता ।
३२९
श्रयणादिगुणमपि स्वधर्मानुष्ठानमेव मुख्यमिति दर्शितं भवति । तथाच मनुः (१०१९७)-'वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः। परधर्माश्रयाद्विप्रः सद्यः पतति जातितः ॥' इति ॥ ४ ॥
कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः ।
सेवानूपं नृपो भैक्षमापत्तौ जीवनानि तु ॥ ४२ ॥ किंच आपत्तौ जीवनानीति विशेषणात्कृष्यादीनां मध्ये अनापदवस्थायां यस्य या वृत्तिः प्रतिषिद्धा तस्य सा वृत्तिरनेनाभ्यनुज्ञायते । यथापदि वैश्यवृत्तिः स्वयंकृता कृषिर्विप्रक्षत्रिययोरभ्यनुज्ञायते एवं शिल्पादीन्यप्यस्याभ्यनुज्ञायन्ते । शिल्पं सूपैकरणादि । भृतिः प्रेष्यत्वम् । विद्या भृतकाध्यापकत्वाद्या । कुसीदं वृद्ध्यर्थ द्रव्यप्रयोगः । तत् स्वयंकृतमभ्यनुज्ञायते । शकटं भाटकेन धान्यादिवहनद्वारेण जीवनहेतुः । गिरिस्तद्गततृणेन्धनद्वारेण जीवनम् । सेवा परचित्तानुर्वतनम् । अनूपं प्रचुरतृणवृक्षजलप्रायः प्रदेशः । तथा नृपो नृपयाचनम् । भैक्षं स्नातकस्यापि । एतान्यापत्तौ जीवनानि । तथाच मनुः (१०।११६) -'विद्याः शिल्पं भृतिः सेवा गोरक्षा विपणिः कृषिः । गिरिभैक्षं कुसीदं च दश जीवन हेतवः ॥' इति ॥ ४२ ॥ यदा कृष्यादीनामपि जीवनहेतूनामसंभवस्तदा कथं जीवनमित्यत आह
बुभुक्षितरुयहं स्थित्वा धान्यमब्राह्मणाद्धरेत् ।
प्रतिगृह्य तदाख्येयमभियुक्तेन धर्मतः ॥४३॥ धान्याभावेन बिरानं बुभुक्षितोऽनश्नन् स्थित्वा अब्राह्मणाच्छूद्रात्तदभावे वैश्यात् तदभावे क्षत्रियाद्वा हीनकर्मण एकाहपर्याप्तं धान्यमाहरेत् । यथाह मनुः (६ । ११७)-'तथैव सप्तमे भक्ते भक्तानि षडनश्नता । अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥' इति । तथाच प्रतिग्रहोत्तरकालं यदपहृतं तद्धर्मतो यथावृत्तमाख्येयम् । यदि नास्तिकेन स्वामिना त्वयेदं किं नामापहृतमित्यभियुज्यते । यथाह मनुः-'खलाक्षेत्रादगाराद्वा यतो वाप्युपलभ्यते । आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति ॥ इति ॥ ४३ ॥ इदमपरमापत्प्रसङ्गादाज्ञो विधीयते
तस्य वृत्तं कुलं शीलं श्रुतमध्ययनं तपः ।
ज्ञात्वा राजा कुटुम्बं च धयों वृत्तिं प्रकल्पयेत् ॥ ४४ ॥ योऽशनायापरीतोऽवसीदति तस्य वृत्तमाचार, कुलमाभिजात्यं, शीलमात्मगुणं, श्रुतं शास्त्र श्रवणं, अध्ययनं वेदाध्ययनं, तपः कृच्छ्रादि च परीक्ष्य
१ भैक्ष्यमापत्तौ ख. २ न्यप्यनुज्ञायन्ते ङ. ३ रूपकरणादि ङ. ४ धान्यं हरेत्. ५ नाष्टिकेन ङ. ६ ममापदतमिति ख. ७ योशतया ख.
For Private And Personal Use Only