________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः अतएव नारदेन 'वैश्यवृत्तावविक्रेयं ब्राह्मणस्य पयो दधि' इति ब्राह्मणग्रहणं कृतम् ॥ ३६ ॥ ३७ ॥ ३८॥. प्रतिप्रसवमाह
धर्मार्थ विक्रय नेयास्तिला धान्येन तत्समाः ॥ ३९ ॥ यद्यावश्यकाः पाकयज्ञादिधर्माः स्वसाधनव्रीह्यादिधान्याभावे न निष्पद्यन्ते तर्हि धान्येन तिला विक्रयं नेयाः। तत्समाः द्रोणपरिमिता द्रोणपरिमितेनेत्येवं तेन धान्येन समाः। तथाच मनुः (१०१९०)-'काममुत्पाद्य कृष्यात्तु स्व. यमेव कृषीवलः । विक्रीणीत तिलान्शुद्धान्धर्मार्थमचिरस्थितान् ॥' इति । धर्मग्रहणमावश्यकभेषजाधुपलक्षणम् । अतएव नारदः-'अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च । यद्यवश्यं तु विक्रेयास्तिला धान्येन तस्समाः ॥' इति यद्यन्यथा विक्रीणीते तर्हि दोषः (१०९१)-'भोजनाभ्यानाहानाथदन्यत्कुरुते तिलैः । कृमिभूत्वा श्वविष्ठायां पितृभिः सह मजति ॥' इति मनुस्मरणात् । सजातीयैः पुनर्विनिमयो भवत्येव (मनुः १०।९४)-'रसा रसैनिमातव्या नत्वेव लवणं रसैः । कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥' इति । कृतान्नं सिद्धान्नं तच्च कृतान्नेन परिवर्तनीयम् । 'कृतान्नं चाकृतानेन' इति पाठे तु सिद्धमन्नमकृतान्नेन तण्डुलादिना परिवर्तनीयमिति ॥ ३९ ॥ पूर्वोक्तनिषिद्धातिक्रमे दोषमाह
लाक्षालवणमांसानि पतनीयानि विकये ।
पयो दधि च मद्यं च हीनवर्णकराणि तु ॥४०॥ लाक्षालवणमांसानि विक्रीयमाणानि सद्यःपतनीयानि द्विजातिकर्महानिकराणि । पयःप्रभृतीनि तु हीनवर्णकराणि शूद्रतुल्यत्वापादकानि । एतद्व्यतिरिक्तापण्यविक्रये वैश्यतुल्यता । यथाह मनुः (१० । ९२-९३)-'सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ इतरेषामपण्यानां विक्रयादिह कामतः । ब्राह्मणः सप्तरात्रेण वैश्यभावं चें गच्छति ॥' इति ॥ ४० ॥
आपद्गतः संप्रगृह्णन्भुञ्जानो वा यतस्ततः।
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥४१॥ किंच। यस्स्वधनोऽवसन्नकुटुम्बतया आपद्गतोऽपि क्षत्रवृत्ति वैश्यवृत्तिं वा न प्रविविक्षति स यतस्ततो हीनहीनतरहीनतमेभ्यः प्रतिगृह्णस्तदन्नं भुञ्जानोऽपि वा एनसा पापेन न लिप्यते । यतस्तस्यामापदवस्थायामसत्प्रतिग्रहादावधिकारित्वेन ज्वलनार्कसमः, यथा ज्वलनोऽर्कश्च हीन संस्कारेऽपि न दुष्यति तथायमा. पद्गतोऽपि न दुष्यतीत्येतावता तत्साम्यम् । एवंच वदता आपद्गतस्य परधर्मा
२ कृष्यां तु क. ख. २ नत्वेवं लवणं ख. ३ नीयमिति यावत् क. ख. ४ निगच्छति ख. ५ हीनतरस्ततो ख. ६ वा नैवैनसा ख.
For Private And Personal Use Only