________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आपद्धर्मप्रकरणम् २] मिताक्षरासहिता ।
वैश्यवृस्यापि जीवतो ब्राह्मणस्य यदपणनीयं तदाह
फलोपलक्षौमसोममनुष्यापूपवीरुधः । तिलौदनरसक्षारान्दधि क्षीरं घृतं जलम् ॥ ३६ ॥ शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः । मृच्चर्मपुष्पकुंत केशतक्रविषक्षितीः ॥ ३७ ॥ कौशेय नीललवण मांसैकशफसीसकान् । शाकार्दोषधिपिण्याकपशुगन्धांस्तथैव च ॥ ३८ ॥ वैश्यवृत्त्यापि जीवन्नो विक्रीणीत कदाचन ।
३२७
नोविक्रीणीतेति प्रत्येकमभिसंबध्यते । फलानि कदलीफलादीनि बदरेङ्गुदव्यतिरिक्तानि । यथाह नारदः - 'स्वयंशीर्णानि पर्णानि फलानां बदरेहुदे । रज्जुः कार्पासिकं सूत्रं तच्चेदविकृतं भवेत् ॥' इति उपेलं मणिमाणिक्याद्यश्ममात्रम् | क्षौममतसीसूत्रमयं वस्त्रम् । क्षौमग्रहणं तान्तवादेरुपलक्षणम् । यथाह मनुः ( १०1८७ ) – 'सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च । अपि चेत्स्युररक्तानि फलमूले तथैौषधीः ॥' इति । सोमो लताविशेषः । मनुष्यपदेनाविशेषात्स्त्रीपुंनपुंसकानां ग्रहणम् । अपूपं मण्डकादि भक्ष्यमात्रम् । वीरुधो वेत्रामृतादिलताः । तिलाः प्रसिद्धाः । भदनग्रहणं भोज्यमात्रोपलक्षणम् । रसा गुडेक्षुरसशर्करादयः । तथाच मनुः ( १०1८८ ) - ' क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान्' इति क्षारा यवक्षारादयः । दधिक्षीरयोर्ग्रहणं मस्तुपिण्डकिलटकूर्चिकादीनां तद्विकाराणामुपलक्षणम् । 'क्षीरं सविकारम्' इति गौतमस्मरणात् । घृतग्रहणं तैलादिस्नेहमात्रोपलक्षणम् । जलं प्रसिद्धम् । शस्त्रं खङ्गादि । आसवग्रहणं मद्यमात्रोपलक्षणम् । मधूच्छिष्टं सिक्थकम् । मधु क्षौद्रम् । लाक्षा जतु । बर्हिषः कुशाः । मृत् प्रसिद्धा । चर्माजिनम् । पुष्पं प्रसिद्धम् । अँजलोमकृतः कम्बलः कुतपः । केशाश्चमर्यादिसंबद्धाः । तमुदश्वित् । विषं शृङ्गयादि । क्षितिर्भूमिः । 'नित्यं भूमित्रीहियवाजाव्यश्वर्षभधेन्वनडुहश्चैके' इति सुमन्तुस्मरणात् । कौशेयं कोशप्रभवं वसनम् । नीलं नीलीरसम् । लवणग्रहणेनैव बिडसौवर्चलसैन्धवसामुद्रसोमक कृत्रिमाण्यविशेषेण गृह्यन्ते । मांसं प्रसिद्धम् । एकशफा हयादयः । सीसग्रहणं लोहमात्रोपलक्षणम् । शाकं सर्वमविशेषात् । ओषधयः फलपाकान्ताः । भदौषधय इति विशेषोपादानाच्छुष्केषु न दोषः । पिण्याकः प्रसिद्धः । पशव आरण्याः । ( १०।८९ ) - ' आरण्यांश्च पशून्सर्वान्दष्ट्रिणश्च वयांसि च' इति मनुस्मरणात् । गन्धाश्चन्दनागुरुप्रभृतयः । सर्वानेतावैश्यवृत्त्या जीवन्ब्राह्मणः कदाचिदपि न विक्रीणीत | क्षत्रियादेस्तु न दोषः ।
I
I
1
१ कुतुपकेश ख. २ उपलं माणिक्यादि ख. ३ अजोर्णलोमकृतः ङ. ४ गौतमस्मरणात् क. ङ.
For Private And Personal Use Only
·