________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२६
याज्ञवल्क्यस्मृतिः
[प्रायश्चित्ताध्यायः
त्वं पदार्थ भूतस्य तत्त्वमस्यादिवाक्यजन्यात्साक्षात्काररूपादीश्वरज्ञानात् पैरमा विशुद्विर्मुक्तिलक्षणा । यथैताः शुद्धयः परमपुरुषार्थास्तद्वयुक्ततरा कालशुद्धिरपीत्येवं प्रशंसार्थं भूतात्मादिविशुद्ध्यभिधानम् ॥ ३२ ॥ ३३ ॥ ३४ ॥
इत्याशौचप्रकरणम् ।
अथापद्धर्मप्रकरणम् २
'भापद्यपि च कष्टायां सद्यः शौचं विधीयते' इत्यापदि मुख्य शौच कल्पानामनुष्ठानासंभवेन सद्यः शौचाद्यनुकल्पमुक्त्वेदानीं तत्प्रसङ्गादापदि 'प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ' इत्यायुक्तयाजनादिमुख्य वृत्यसंभवेन वृत्यन्तरमाह
क्षात्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः । निस्तीर्यतामथात्मानं पावयित्वा न्यसेत्पथि ।। ३५ ॥
fast विप्रो बहुकुटुम्बतया स्ववृत्त्या जीवितुमसमर्थः क्षत्रसंबन्धिना कर्मणा शस्त्रग्रहणादिना आपदि जीवेत् । तेनापि जीवितुमशक्नुवन् वैश्यसंबन्धिना कर्मणा वाणिज्यादिना जीवेत् न शूद्रवृत्या । तथाच मनुः (१०।८२ ) - ' उ. भाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् । कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य tar ||" इति । तथा आपद्यपि न हीनवर्णेन ब्राह्मी वृत्तिराश्रयणीया किंतु ब्राह्मणेन क्षात्री, क्षत्रियेण वैश्यसंबन्धिनी, वैश्येन च शौद्रीत्येवं स्वानन्तरहीनवर्णवृत्तिरेव | 'अजीवन्तः स्वधर्मेणानन्तरां पापीयसीं वृत्तिमातिष्टेरन्नतु कदाचिज्यायसीम्' इति वसिष्ठस्मरणात् । ज्यायसी च ब्राह्मी वृत्तिः । तथाच स्मृत्यन्तरम्—उत्कृष्टं वापकृष्टं वा तयोः कर्म न विद्यते । मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥' इति । शूद्रस्योत्कृष्टं ब्राह्मं कर्म न विद्यते । तथा ब्राह्मणस्यापकृष्टं शौद्रं कर्म । मध्यमे क्षत्रवैश्यकर्मणी पुनरापद्भतसर्ववर्णसाधारणे इति । शूदुश्चापतो वैश्यवृत्या शिल्पैर्वा जीवेत् । 'शूद्रस्य द्विजशुश्रूषा तयाऽजीवन् वणिग्भवेत् । शिल्पैर्वा विविधैजींवेद्विजातिहितमाचरन् ॥' इति प्रागुक्तत्वात् ॥ मनुना चात्र विशेषो दर्शितः (१०।१०० ) - (यैः कर्मभिः प्रचरितैः ः शुश्रूष्यन्ते द्विजातयः । तानि कारुककर्माणि शिल्पानि विविधानि च ॥' इति । अनेनैव न्यायेनानुलोमोत्पन्नानामपि स्वानन्तरा वृत्तिरूहनीया । एवं स्वानन्तरहीनवर्णवृत्त्या आपदं निस्तीर्य प्रायश्चित्ताचरणेनात्मानं पावयित्वा पथि न्यसेत् । स्ववृत्तावात्मानं स्थापयेदित्यर्थः । यद्वायमर्थः । गर्हितवृत्त्यार्जितं धनं पथि न्यसेदुत्सृजेदिति । तथाच मनुः (१०।१११ ) - ' जपहोमैरपैत्येनो याजनाध्यापनैः कृतम् । प्रतिग्रहनिमित्तं तु त्यागेन तपसैव तु ॥' इति ॥ ३५ ॥
1
१ तत्त्वमसीत्यादि ख. २ परमात्मशुद्धिः ख. ३ साधारणे हि ते इति ख.
For Private And Personal Use Only