________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
मार्जनात् ॥' इति ॥ तथाच शङ्ख:-'रथ्याकर्दमतोयेन ष्टीवनायेन वा तथा । नाभेरूज़ नरः स्पृष्टः सद्यः स्नानेन शुध्यति ॥' इति ॥ यमेनाप्यत्र विशेष उक्तः-'सकर्दमं तु वर्षासु प्रविश्य ग्रामसंकरम् । जङ्घयोर्मृत्तिकास्तिस्रः पादयोर्द्विगुणास्ततः ॥' इति ।ग्रामसंकरं ग्रामसलिलप्रवाहप्रवेशंसकर्दमं प्रविश्येत्यर्थः। मारुतशोषिते तु कर्दमादौ न दोषः । 'रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुध्यन्ति पक्केष्टकचितानि च ॥' इति प्रागुक्तत्वात् ॥ अस्थनि मनुना विशेष उक्तः (५।८७)-'नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुधति । आचम्यैव तु निःस्नेहं गां स्पृष्ट्वा वीक्ष्य वा रविम् ॥' इति । इदं द्विजातास्थि. विषयम् । अन्यत्र वसिष्ठोक्तम्-'मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रमाशौचम स्निग्धे त्वहोरात्रम्।' इति । अमानुषे तु विष्णूक्तम्-'भक्ष्यवयं पञ्चनखशवं तदस्थि च सस्नेहं स्पृष्ट्वा स्नातः पूर्ववस्त्रं प्रक्षालितं बिभृयात्' इति ॥ एवमन्येऽपि स्नानाहाः स्मृत्यन्तरतोऽवबोद्धव्याः ॥ एवं स्नानार्हाणां बहुत्वात्तदभिप्राय तैरिति बहुवचनमविरुद्धम् । उदक्याशुचिभिः स्त्रायादित्येतच्च दण्डाद्यचेतनव्यवधानस्पर्श वेदितव्यम् । चेतनव्यवधाने तु मानवम् (म० ५।८५)-'दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा । शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥' इति ।। तृतीयस्य त्वाचमनमेव । 'तत्स्पृष्टिनं स्पृशेद्यस्तु स्नानं तस्य विधीयते । ऊर्ध्वमाचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा ॥' इति संवर्तस्मरणात् । एतच्चाबुद्धिपूर्वकविषयम् । मतिपूर्वे तु तृतीयस्यापि स्नानमेव । यथाह गौतमः-'पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचेलमुदकोपस्पर्शनाच्छुध्येत्' इति । चतुर्थस्य त्वाचमनम् 'उपस्पृश्याशुचिस्पृष्टं तृतीयं वापि मानवः । हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य शुध्यति ॥' इति देवलस्मरणात् । अशुचीनां पुनरुइक्यादिस्पर्श देवलेन विशेष उक्तः- 'श्वपाकं पतितं व्यङ्गमुन्मत्तं शवहारकम् । सूतिका साविकां नारी रजसा च परिप्लुताम् ॥ श्वकुक्कटवराहांश्च ग्राम्यान्संस्पृश्य मानवः । सचेलः सशिरः स्नात्वा तदानीमेव शुध्यति ॥' इति । 'अशुद्धान्स्वयमप्येतानशुद्धस्तु यदि स्पृशेत् । विशुध्यत्युपवासेन तथा कृच्छ्रेण वा पुनः ॥' इति । साविका प्रसवस्य कारयित्री । कृच्छ्रः श्वपाकादिविषयः श्वादिषु तूपवास इति व्यवस्था ॥३०॥
अधुना कालशुद्धौ दृष्टान्तत्वेन द्रव्यशुद्धिप्रकरणोक्तांस्तथैवात्र प्रकरणे वक्ष्यमाणांश्च शुद्धिहेतूननुक्रामति
कालोऽग्निः कर्म मृद्वायुर्मनो ज्ञानं तपो जलम् ।
पश्चात्तापो निराहारः सर्वेऽमी शुद्धिहेतवः ॥ ३१ ॥ यथाश्यादयोऽमी सर्वे स्वविषये शुद्धिहेतवस्तथा कालोऽपि दशरात्रादिकः । शास्त्रगम्यत्वाच्छुद्धिहेतुत्वस्य । अग्निस्तावच्छुद्धिहेतुः। यथाभ्यधायि 'पुनःपाकान्म
१ चाण्डालाद्यचेतन ख. २ तमेव तु स्पृशेत् ख. ३ अशुचिनां पुनः ख. ४ शवदाहकं रु.
For Private And Personal Use Only