________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता।
३२१ संग्रामे युद्धे । -'संग्रामे समुपोळ्हे राजानं संनाहयेत्' इत्याश्वलायनायुक्तसं. नहनविधौ प्रास्थानिकशान्तिहोमादौ च सद्यःशुद्धिः । देशस्य विस्फोटादिभिरुपसर्गे राजभयाद्वा विप्लवे तदुपशमनार्थे शान्तिकर्मणि सद्यःशौचम् । विप्लवाभावेऽपि क्वचिद्देशविशेषेण पैठीनसिना शुद्धिरुक्ता-'विवाहदुर्गयज्ञेषु या. त्रायां तीर्थकर्मणि । न तत्र सूतकं तद्वत्कर्म यज्ञादि कारयेत् ॥' इति । तथा कष्टायामप्यापदि व्याध्याभिभवेन मुमूर्षावस्थायां दुरितशमनार्थे दाने । तथा संकुचितवृत्तेश्च क्षुत्परिश्रान्तमातापित्रादिबहुकुटुम्बस्य तदरणोपयोगिनि प्रतिग्रहे सद्यःशुद्धिः। इयं च शुद्धिर्यस्य सद्यःशौचं विनायुपशमो न भवति अश्वस्तनिकस्य तद्विषया। यस्त्वेकाहपर्याप्तसंचितधनस्तस्यैकाहः, यख्यहोपयोगिसंचयी तस्य व्यहः, यस्तु चतुरहार्थमापादितद्रव्यः कुम्भीधान्यस्तस्य चतुरहा, कुसूलधान्यकस्य दशाह इत्येवं यस्य यावत्कालमार्त्यभावस्तस्य तावत्कालमाशोचम् । आपदुपाधिकरवादाशौचसंकोचस्य । अतएव मनुना (४७)-'कुसू. लधान्यको वा स्यात्कुम्भीधान्यक एव वा । व्याहिको वापि च भवेदश्वस्तनिक एव वा ॥' इत्यत्र प्रतिपादितचतुर्विधगृहस्थाभिप्रायेण–'दशाहं शावमाशौचं सपिण्डेषु विधीयते। अक्सिंचयनादस्यां ज्यहमेकाहमेव वा ॥' इति कल्पचतुष्टयं प्रतिपादितम् । समानोदकविषयाश्च संकुचिताशौचकल्पाः पक्षिण्येकाहःसद्यःशौचरूपाः स्मृत्यन्तरे दृष्टाः वृत्तिसंकोचोपाधिकतयैव योज्याः । अयं चाशौचसंकोचो येनैव प्रतिग्रहादिना विनार्तिस्तद्विषयो न सर्वत्रेत्यवगन्तव्यम् ॥ मनु:-'एकाहाहाह्मणः शुध्येद्योऽग्निवेदसमन्वितः । त्र्यहारकेवलवेदस्तु विहीनो दशमिर्दिनैः ॥' इत्यादिस्मृत्यन्तरवचनपर्यालोचनयाध्ययनज्ञानानुष्ठानयोगिनां त्र्येकाहादिभिः सर्वात्मना शुद्धिरित्येवं कमानेष्यते ॥ उच्यते-'द. शाहं शावमाशौचं सपिण्डेषु विधीयते' इति सामान्यप्राप्तदशाहबाधपुरःसरमेव झेकाहाद्राह्मणः शुद्ध्येदिति विधायकं भवति । बाधस्य चानुपपत्तिनिबन्धनत्वात् यावत्यबाधितेऽनुपपत्तिप्रशमो न भवति तावदाधनीयम् । अतः कियदनेन बाध्यमित्यपेक्षायामपेक्षितविशेषसमर्पणक्षमस्याग्निवेदसमन्वित इति वाक्यविशेषस्य दर्शनादग्निवेदविषयेऽग्निहोत्रादिकर्मणि स्वाध्याये च व्यवतिष्ठते न पुनर्दानादावपि । एवं चाग्निवेदपदयोः कार्यान्वयित्वं भवति । इतरथा येनाग्निवेदसाध्यं कर्म कृतं तस्यैकाहाच्छुद्धिरिति पुरुषविशेषोपलक्षणत्वमेव स्यात् । नचैतद्युक्तम्। एवंच सति-'प्रत्यूहेन्नाग्निषु क्रियाः।वैतानोपासनाः कार्याः क्रियाश्च श्रुतिचोदिताः॥' इति । तथा ब्राह्मणस्य च स्वाध्यायादिनिवृत्त्यर्थ सद्यःशौचमित्ये. वमादिभिर्मन्वादिवचनैरेकवाक्यता भवति । तथाच-'उभयत्र दशाहानि कुलस्यान्नं न भुज्यते' इति दशाहपर्यन्तं भोजनादिकं प्रतिषेधयद्भिर्यमादिवचनैरविरोधोऽपि सिध्यति, अतः क्वाचिरकमेवेदमाशौचसंकोचविधानं न पुनः सर्वसं. व्यवहारादिगोचरमित्यलमतिप्रपञ्चेन ॥
१ श्रुतिचोदनात घ. २ क्वचित्कर्मविशेषे इदं ख.
For Private And Personal Use Only