________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२०
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
ऽप्युक्तम्-'मूल्यकर्मकराः शूदा दासीदासास्तथैवच । स्नाने शरीरसंस्कारे गृहकर्मण्यदूषिताः ॥' इति ॥ इयं च दासादिशुद्धिरपरिहरणीयतया प्राप्तस्पर्शवि. षयेत्यनुसंधेयम् । अतएव स्मृत्यन्तरम्-'सधःस्पृश्यो गर्भदासो भक्तदास. रुयहाच्छुचिः।' तथा 'चिकित्सको यत्कुरुते तदन्येन न शक्यते ॥ तस्माञ्चिकित्सकः स्पर्शे शुद्धो भवति नित्यशः ॥' इति ॥ २७ ॥
ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् । सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ २८ ॥
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे । - आपद्यपि हि कष्टायां सद्यःशौचं विधीयते ॥ २९ ॥ किंच । ऋत्विजो वरणसंभृता वैतानोपासनाकर्तृविशेषाः । दीक्षया संस्कृता दीक्षितास्तेषां यज्ञियं यज्ञे भवं कर्म कुर्वतां सद्यःशौचं विधीयत इति सर्वत्रानुषङ्गः । दीक्षितस्य वैतानोपासनाः कार्या' इत्यनेन सिद्धेऽप्यधिकारे पुनर्वचनं यजमाने स्वयंकर्तृत्वविधानार्थ सद्यःस्नानेन विशुद्ध्यर्थं च । सत्रिग्रहणेन संततानुष्ठानतुल्यतयानसत्रप्रवृत्ता लक्ष्यंते । मुख्यानां तु सत्रिणां दीक्षितग्रहणेनैव सिद्धेः । व्रतिशब्देन कृच्छ्रचान्द्रायणादिप्रवृत्ताः स्नातकवतप्रायश्चित्तप्रवृत्ताश्चोच्यन्ते । तथा ब्रह्मचारिग्रहणेन ब्रह्मचर्यादिवतयोगिनः श्राद्धकर्तुर्भोक्तुश्च ग्रहणम् । तथा स्मृत्यन्तरम्-'नित्यमनप्रदस्यापि कृच्छ्रचान्द्रायणादिषु । निर्वृत्ते कृच्छ्रहोमादौ ब्राह्मणादिषु भोजने ॥ गृहीतनियमस्यापि न स्यादन्यस्य कस्यचित् । निमन्त्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि ॥ निमत्रितस्य विप्रस्य स्वाध्यायादिर. तस्य च । देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित् ॥ प्रायश्चित्तप्रवृत्तानां दा. तृब्रह्मविदां तथा ॥' इति ॥ सत्रिणां व्रतिनां सत्रे व्रते च शुद्धिर्न कर्ममाने सं. व्यवहारे वा । तथाच विष्णुः-'न व्रतिनां व्रते न सत्रिणां सत्रे' इति । ब्रह्मचार्युपकुर्वाणको नैष्ठिकश्च । यस्तु नित्यं दातैव न प्रतिग्रहीता स वैखानसो दातृशब्देनोच्यते । ब्रह्मविद्यतिः । एतेषां च त्रयाणामाश्रमिणां सर्वत्र शुद्धिः । विशेषे प्रमाणाभावात् । दाने च पूर्वसंकल्पितद्रव्यस्य नाशौचम् । 'पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति' इति ऋतुस्मरणात् । स्मृत्यन्तरे चात्र विशेष उक्तः - विवाहोत्सवयज्ञादिष्वन्तरा मृतसूतके। शेषमन्नं परैर्देयं दातृन्भोक्तंश्च न स्पृशेत् ॥' इति । यज्ञे वृषोत्सर्गादौ विवाहे च पूर्वसंभृतसंभारे । तथाच स्मृ. त्यन्तरं-'यज्ञे संभृतसंभारे विवाहे श्राद्धकर्मणि' इति । सद्यःशौचमन्त्र प्रकतम् । विवाहग्रहणं पूर्वप्रवृत्तचौलोपनयनादिसंस्कारकर्मोपलक्षणम् । यज्ञग्रहणं च पूर्वप्रवृत्तदेवप्रतिष्ठारामाधुत्सवमात्रोपलक्षणम् ।-'न देवप्रतिष्ठोत्सर्गविवाहेषु न देशविभ्रमे नापद्यपि च कष्टायामाशौचम्' इति विष्णुस्मरणात्
१ वरणकरणसंगता ग. वरणाभरणसंभृता ङ, २ याजमानेषु ख. ३ स्नानविध्यर्थं ख. स्नानविशुध्यर्थ ग. ४ तस्मादन्यस्य ख. ५ प्रवृत्ते ग. ६ त्रोपलक्षणम् ग. ऊ.
For Private And Personal Use Only