________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता ।
षेधः । इदं समानोत्कृष्टजातिविषयम् । यथाह मनुः (५.१०३)-'अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च । स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥' इति । ज्ञातयो मातृसपिण्डाः । इतरेषां तु विहितत्वान्न दोषः । निकृष्टजात्यनुगमने तु स्मृत्यन्तरोक्तं द्रष्टव्यम् । तत्र शूद्रानुगमने-'प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः । अनुगच्छेन्नीयमानं स त्रिरात्रेण शुध्यति ॥ त्रिराने तु ततस्तीर्णे नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥' इति पराशरोक्तम् । क्षत्रियानुगमने त्वहोरात्रम् ।-'मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रमाशौचं अस्निग्धे त्वहोरात्रं शवानुगमने चैकम्' इति वसिष्ठोक्तम् । वैश्यानुगमने पुनः पक्षिणी । तथा क्षत्रियस्यानन्तरवैश्यानुगमने अहोरात्रमेकान्तरशूद्रानुगमने पक्षिणी वैश्यस्य शूदानुगमने एकाह इत्यूहनी. यम् ॥ तथा रोदनेऽपि पारस्करेणोक्तम्-'मृतस्य बान्धवैः सार्धं कृत्वा तु परिदेवनम् । वर्जयेत्तदहोरात्रं दानं श्राद्धादिकर्म च ॥ इति । तथालंकरणमपि न कार्यम् ।-'कृच्छ्रपादोऽसपिण्डस्य प्रेतालंकरणे कृते । अज्ञानादुपवासः स्यादशक्तौ नानमिष्यते ॥' इति शङ्खन प्रायश्चित्तस्थानातत्वात् ॥ २६ ॥ सपिण्डाशीचे क्वचिदपवादमाह
महीपतीनां नाशौचं हतानां विद्युता तथा ।
गोब्राह्मणार्थ संग्रामे यस्य चेच्छति भूमिपः ॥ २७ ॥ यद्यपि महीशब्देन कृत्स्नं भूगोलकमभिधीयते तथाप्यत्र सकलायाः क्षितेरेकभर्तृकत्वानुपपत्तेः महीपतीनामिति बहुवचनानुरोधाच्च तदेकदेशभूतानि मण्डलानि लक्ष्यन्ते । तत्पालनाधिकृतानां क्षत्रियादीनामभिषिक्तानां नाशौचम् । तैराशौचं न कार्यमित्यर्थः । तथा विद्युद्धतानां गोब्राह्मणरक्षणार्थ विपन्नानां च संबन्धिनो ये सपिण्डास्तैरप्याशौचं न कार्यम् । यस्य च मन्त्रिपुरोहितादेर्भूमिपोऽनन्यसाध्यमन्त्राभिचारादिकर्मसिद्ध्यर्थमाशौचाभावमिच्छति तेनापि न का. र्यम् । अत्र च महीपतीनां यदसाधारणत्वेन विहितं प्रजापरिरक्षणं तद्येन दानमानसरकारव्यवहारदर्शनादिना विना न संभवति तत्रैवाशौचाभावो न पुनः पञ्चमहायज्ञादिष्वपि । तथाच मनुः (५।९५)-'राज्ञो माहात्मिके स्थाने सद्यःशौचं विधीयते । प्रजानां परिरक्षार्थमासनं चात्र कारणम् ॥' इति । गौ. तमेनाप्युक्तम्–'राज्ञां च कार्याविधातार्थम्' इति राजभृत्यादेरप्याशौचं न भवति । यथाह प्रचेताः-'कारवः शिल्पिनो वैद्या दासीदासास्तथैव च । राजानो राजभृत्याश्च सद्यःशौचाः प्रकीर्तिताः ॥' इति । कारवः सूपकारादयः। शिल्पिनश्चित्रकारचैलनिर्णेजकादयः। अयं चाशौचाभावः किंविषय इत्यपेक्षायां कर्मनिमित्तैः शब्दैस्तत्तदसाधारणस्य कर्मणो बुद्धिस्थत्वात्तत्रैव द्रष्टव्यः । अतएव विष्णुः-'न राज्ञां राजकर्मणि न प्रतिनां व्रते न सत्रिणां सत्रे न कारूणां कारुकर्मणि' इति प्रतिनियतविषयमेवाशौचाभावं दर्शयति । शातातपीये१ रक्षार्थ शायनं ग. २ भृत्या वैद्या दासास्तथैव च. घ.
या० ३०
For Private And Personal Use Only