________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः गिन्यां संस्कृतायां तु भ्रातर्यपि च संस्कृते । मित्रे जामातरि प्रेते दौहित्रे भगिनीसुते ॥ शालके तत्सुते चैव सद्यःनानेन शुध्यति ॥ ग्रामेश्वरे कुलपतौ श्रोत्रिवे वा तपस्विनि । शिष्ये पञ्चत्वमापन्ने शुचिर्नक्षत्रदर्शनात् ॥ ग्राममध्यगतो याव. च्छवस्तिष्ठति कस्यचित् । ग्रामस्य तावदाशौचं निर्गते शुचितामियात् ॥' इत्यादीन्याशौचविशेषप्रतिपादकानि स्मृतिवचनान्यन्वेषणीयानि । ग्रन्थगौरवमयादत्र न लिख्यन्ते । एषु चैकविषयगुरुलध्वाशौचप्रतिपादकतया परस्परविरुद्धेषु संनिधिविदेशस्थापेक्षया व्यवस्थानुसंधातव्या ॥ २४ ॥
अनौरसेषु पुत्रेषु भार्यावन्यगतासु च ।
निवासराजनि प्रेते तदहः शुद्धिकारणम् ॥ २५ ॥ किंच । अहरित्यनुवर्तते । अनौरसाः क्षेत्रजदत्तकादयः तेषु जातेषूपरतेषु वा. होरात्रमाशौचम् । तथा स्वभार्यास्वन्यगतास्वन्यं प्रतिलोमव्यतिरिक्तं आश्रितासु अतीतासु चाहोरात्रमेव न पुनः सत्यपि सापिण्डे दशरात्रम् । प्रतिलोमाश्रितासु चाशौचाभाव एव । पाखण्ड्यनाश्रिताः स्तेना इत्यनेन प्रतिषेधात्। एतच्च भार्यापुत्रत्वशब्दयोः संबन्धिशब्दत्वात् यत्प्रातियौगिकं भार्यात्वं पुत्रत्वं च तस्यैवेदमाशौचं । सपिण्डानां त्वाशौचाभाव एव। अतएव प्रजापतिः–'अन्याश्रितेषु दारेषु परपत्नीसुतेषु च । गोत्रिणः स्नानशुद्धाः स्युस्त्रिरात्रेणैव तत्पिता ॥' इति । स्वैरिण्याद्यास्तु यमाश्रितास्तस्य तु त्रिरात्रमेव । यथाह विष्णुः-'अनौरसेषु पुत्रेषु जातेषु च मृतेषु च । परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥' इति त्रिरात्रमन प्रकृतम् । अनयोश्च त्रिरात्रैकरात्रयोः संनिधिविदेशस्थापेक्षया व्यवस्था । यदा तु पितुस्विरात्रं तदा सपिण्डानामेकरात्रम् । यथाह मरीचिः'सूतके मृतके चैव त्रिरात्रं परपूर्वयोः । एकाहस्तु सपिण्डानां त्रिरात्रं यत्र वै पितुः ॥' इति । किंच । निवसत्यस्मिन्निति निवासः स्वदेश उच्यते तस्य यो राजा स्वामी विषयाधिपतिः स यस्मिन्नहनि अतीतस्तदहर्मात्रं शुद्धिकारणम् । रात्रौ चेदतीतस्तदा रात्रिमात्रम् । अतएव मनुः (५।८२)-'प्रेते राजनि सज्योतिर्यस्य स्थाद्विषये स्थितः' इति । ज्योतिषा सह वर्तते इति सज्योतिराशौचम् । अह्नि चेद्यावत्सूर्यदर्शनं रात्रौ चेद्यावनक्षत्रदर्शनमित्यर्थः ॥ २५ ॥ अनुगमनाशौचमाह
ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः कचित् ।
अनुगम्याम्भसि लात्वा स्पृष्ट्वाग्निं धृतभुक्शुचिः ॥२६॥ ब्राह्मणेन असपिण्डेन द्विजो विप्रादिः शूद्रो वा प्रेतो नानुगन्तव्यः । यदि स्नेहादिनानुगच्छति तदाम्भसि तडागादिस्थे स्नात्वाग्निं स्पृष्ट्वा घृतं प्राश्य शुचिभवेत् । अस्य च घृतप्राशनस्य भोजनकार्यविधाने प्रमाणाभावान भोजनप्रति
For Private And Personal Use Only