________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः काञ्चौलादागेकाहः । प्रथमवर्षादूचं त्रिवर्षपर्यन्तं कृतचूडस्य व्यहम् । इतरस्य स्वेकाहः । वर्षत्रयादूर्ध्वमकृतचूडस्यापि व्यहम् । उपनयनादूचं सर्वेषां ब्राह्मणादीनां दशरात्रादिकमिति ॥ २३ ॥ इदानीं स्त्रीषु च वयोवस्थाविशेषेणापवादमाह
अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । अदत्ता अपरिणीता याः कन्यास्तासु कृतचूडासु वाग्दानात्प्रागहोरात्रं विशेषेण शुद्धिकारणम् । सपिण्डानां सापिण्ड्यं च कन्यानां त्रिपुरुषपर्यन्तमेव । 'अप्रत्तानां तु स्त्रीणां त्रिपुरुषी विज्ञायते' इति वसिष्ठस्मरणात् । बालेपु चानुत्पबदन्तेषु अग्निसंस्कारे सत्येकाहो विशोधनम् । अकृतचूडायां तु कन्यायां सद्यःशौचम् । 'अचूडायां तु कन्यायां सद्यःशौचं विधीयते' इत्यापस्तम्बस्मरणात् । वाग्दानादूर्ध्वं तु संस्कारात्प्राक्पतिपक्षे पितृपक्षे च त्र्यहमेव । यथाह मनुः (५।७२) स्त्रीणामसंस्कृतानां तु व्यहाच्छुध्यन्ति बान्धवाः । यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥' इति । बान्धवाः पतिपक्ष्यास्त्रिरात्रेण शुध्यन्ति । सनाभयस्तु पितृपक्ष्याः सपिण्डा यथोक्तेनैव कल्पेन निर्वृत्तचूडकानामित्यादिनोकेन त्रिरात्ररूपेण न पुनर्दशरात्ररूपेण । विवाहात्प्राक् तस्यायुक्तत्वात् । अतएव मरीचिः-'वारिपूर्व प्रदत्ता तु या नैव प्रतिपादिता । असंस्कृता तु सा ज्ञेया त्रिरात्रमुभयोः स्मृतम् ॥' इति । उभयोः पतिपितृपक्षयोः । विवाहादूर्ध्व तु विष्णुना विशेषो दर्शितः-'संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे, तत्प्रसवमरणे चेपितृगृहे स्यातां तदैकरात्रं त्रिरानं वा' इति । तत्र प्रसवे एकाहः प्रयाणे त्रिरात्रमिति व्यवस्था । इदं च वयोवस्थाशौचं सर्ववर्णसाधारणम् । क्षत्रस्य द्वादशाहानीति तद्वर्ण विशेषोपादानेनाभिधानात् । अतएव मनुना अनुपात्तवर्णविशेषाशौचविधेः साधारण्यप्रतिपादनार्थ चातुर्वाधिकारे सत्यपि पुनः 'चतुर्णामपि वर्णानां यथावदनुपूर्वशः' इत्युक्तम् । तथाङ्गिरसायुक्तम्-'भविशेषेण वर्णानामक्सिंस्कारकर्मणः । त्रिरात्रात्तु भवेच्छुद्धिः कन्यास्वह्रा विधीयते ॥' इति व्याघ्रपादवचनं च तुल्यं वयसि सर्वेषामिति प्राक्प्रदर्शितम् । अतो यथा 'पिण्डयज्ञावृता देय'मित्यादिः पिण्डोदकदान विधिः सर्ववर्णसाधारणः । यथा वा समानोदकाशौचविधिः 'अन्तरा जन्ममरणे' इति संनिपाताशौचविधिश्च यद्वच्च 'गर्भसावे मासतुल्या निशा' इति नावाशौचविधिः, 'प्रोषिते कालशेषः स्थादशेषे त्र्यहमेव तु' इति विदेशस्थाशौचविधिश्च, यथा गुर्वाद्याशौचविधिः सर्ववर्णसाधारणः । तथा वयोवस्थानिमित्तमप्याशौचं सर्ववर्णसाधारणमेव भवितुमर्हति । अतएव 'क्षत्रे षभिः कृते चौले वैश्ये नवभिरुच्यते । ऊर्च विवर्षाच्छूद्रे तु द्वादशाहो विधीयते ॥' तथा 'यत्र त्रिरात्रं विप्राणामाशौचं संप्रदृश्यते । तत्र शूद्रे द्वादशाहः षण्नव क्षत्रवैश्ययोः ॥' इत्यादीनि ऋष्यशृङ्गादिवचनानि विगीतत्वबु
१ अकृतचूडायां ख. २ इति वसिष्ठस्मरणात घ. ३ यदूर्ध्व ख.
For Private And Personal Use Only