SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आशौचप्रकरणम् १] मिताक्षरासहिता । ३१५ वयोवस्थाविशेषादपि दशाहाचाशौचस्यापवादमाह आदन्तजन्मनः सद्य आचूडान्नैशिकी स्मृता । त्रिरात्रमावतादेशाद्दशरात्रमतः परम् ॥ २३ ॥ यावता कालेन दन्तानामुत्पत्तिस्तस्मिन्काले अतीतस्य बालस्य तत्संबन्धिनां सद्यःशौचं चूडाकरणादायतस्य संबन्धिनां नैशिकी निशायां भवा अहोरात्र. व्यापिन्यशुद्धिः। व्रतादेश उपनयनं ततोऽवा चूडायाश्चोर्ध्वमतीतस्य व्यहमशुद्धिः । अत्र चादन्तजन्मनः सद्य इति यद्यप्यविशेषेणाभिधानं तथाप्यग्निसंस्काराभावे द्रष्टव्यम् । -'भदन्तजाते बाले प्रेते सद्य एव शुद्धिर्नास्याग्निसंस्कारो नोदनक्रिया' इति वैष्णवे अग्निसंस्काररहितस्य सद्यःशौचविधानात् । सति 'त्वग्निसंस्कारे अहस्त्वदत्तकन्यासु बालेषु च' इति वक्ष्यमाण एकाहः। तथाच यमः-'अदन्तजाते तनये शिशौ गर्भच्युते तथा । सपिण्डानां तु सर्वेषामहोरात्रमशौचकम् ॥' इति ॥ नामकरणात्याक्सद्यःशौचमेव नियतम् । 'प्राङ्गामकरणात्सद्यःशुद्धिः' इति शङ्खस्मरणात् । चूडाकर्म च प्रथमे तृतीये वा वर्षे स्मर्यते--'चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः। प्रथमेऽब्दे तृतीये वा कतव्यं श्रुतिचोदनात् ॥' इति स्मरणात् ॥ ततश्च दन्तजननादूर्ध्व प्रथमवार्षिकचूडापर्यन्तमेकाहः । तत्र त्वकृतचूडस्य दन्तजनने सत्यपि त्रिवर्ष यावदेकाह एव । तथाच विष्णुः-'दन्तजातेऽप्यकृतचूडेऽहोरात्रेण शुद्धिः' इति । तत अर्व प्रागुपनयात् यहः। यत्तु मनुवचनम् (५।६७)-'नृणामकृतचूडानामशुद्धिनैशिकी स्मृता । निर्वृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥' इति । तस्याप्ययमेव विषयः । यत्तूनद्विवर्षमधिकृत्य तैनेवोक्तम् (५।६९)-'अरण्ये कावत्यक्त्वा क्षिपेयुस्यहमेव तु' इति । यच्च वसिष्टवचनम्-'उनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रम्' इति, तत्संवत्सरचूडाभिप्रायेण । यत्तु अङ्गिरोवचनम्-'यद्यप्यकृतचूडो वै जातदन्तश्च संस्थितः । तथापि दाहयित्वैनमाशौचं व्यहमाचरेत् ॥' इति, तद्वर्षत्रयादूर्ध्व कुलधर्मापेक्षया चूडोत्कर्षे वेदितव्यम् । विप्रे न्यूनत्रिवर्षे तु मृते शुद्धिस्तु नैशिकी' इति तेनैवामिहितत्वात् । नचायमेकाहो दन्तजननाभाव इति शङ्कनीयम् । नहि न्यूनत्रिवर्षस्य दन्तानुत्पत्तिः संभवति । तथा सत्यपि दन्तजनने अकृतचूडस्यैकाहं विदधता विष्णुवचनेन विरोधश्च दुष्परिहरः स्यात् । तस्मात्प्राचीनैव व्याख्या ज्यायसी। यत्तु कश्यपवचनम्-'बालानामदन्तजातानां त्रिरात्रेण शुद्धिः' इति तन्मातापितृविषयम् । 'निरस्य तु पुमान्शुक्रमुपैस्पर्शाद्विशुध्यति । बैजिकादभिसंबन्धादनुरुन्ध्यादधं व्यहम् ॥' इति जन्यजनकसंबन्धोपाधिकतया त्रिरात्रसारणात् । ततश्चायमर्थ:-'प्राङ्गामकरणात्सद्यः शौचं तदूर्ध्व दन्तजननादयंगमिसंस्कारक्रियायां एकाहः । इतरथा सद्यःशौचम् । जातदन्तस्य च प्रथमवार्षि १ कर्म द्वितीये ख. २ क्षिपेत्तभ्यहमेव क. ३ कुलवर्णधर्मापेक्षया घ. ४ मुपस्पृश्य इति ग. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy