SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१२ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः दयादित्यपरः । यथाह कश्यपः-'उदिते तु यदा सूर्ये नारीणां दृश्यते रजः । जननं वा विपत्तिा यस्याहस्तस्य शर्वरी ॥ अर्धरात्रावधिः कालः सूतकादौ विधीयते । रात्रिं कुर्यात्रिभागां तु द्वौ भागौ पूर्व एव तु ॥ उत्तरांशः प्रभातेन युज्यते ऋतुसूतके । रानावेव समुत्पन्ने मृते रजसि सूतके ॥ पूर्वमेव दिनं माझं यौवनोदयते रविः ॥' इति ॥ एतेषां च कल्पानां देशाचारतो व्यवस्था विज्ञेया। इदं चाशौचमाहिताग्नेरुपरमे संस्कारदिवसप्रभृति कर्तव्यम् । अनाहिताग्नस्तु मरणदिवसप्रभृति संचयनं तूभयोरिति संस्कारदिवसप्रभृतीति विवेचनीयम् । यथाहाङ्गिराः-'अनग्निमत उत्क्रान्तेः साग्नेः संस्कारकर्मणः । शुद्धिः संचयनं दाहान्मृताहस्तु यथाविधि ॥' इति ॥ साग्नेः संस्कारकर्मण इति श्रवणादाहितानो पितरि देशान्तरमृते तत्पुत्रादीनामासंस्कारासंध्यादिकर्मलोपो नास्तीत्यनुसंधेयम् । तथाच पैठीनसिः- अनग्निमत उस्क्रान्तेराशौचं हि द्विजातिषु । दाहादग्निमतो विद्याद्विदेशस्थे मृते सति ॥' इति ॥ २० ॥ सपिण्डत्वादिना दशाहादिप्राप्तौ क्वचिन्मृत्युविशेषेणापवादमाह हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् । नृपोऽभिषिक्तः क्षत्रियादिः । गोग्रहणं शृङ्गिदंष्ट्रयादितिरश्वामुपलक्षणार्थम् । विप्रग्रहणमन्त्यजोपलक्षणम्(!)। एतैर्हतानां संबन्धिनो ये सपिण्डास्तेषाम् । विपोद्वन्धनादिभिः बुद्धिपूर्वमात्मानं ये व्यापादयन्ति ते आत्मघातिनः । आत्मघातिग्रहणं पाखण्ड्यनाश्रिता इत्येकयोगोपात्तपतितमात्रोपलक्षणार्थम् । तत्संबन्धिनां चान्वक्षमनुगतमक्षमन्वक्षं सथःशौचमित्यर्थः । तत्संबन्धिनां च सान्वक्षं यावद्दर्शनमाशौचं न पुनर्दशाहादिकम् । तथाच गौतमः-गोब्राह्मणहतानामन्वक्षं राजक्रोधाच्चायुद्धे प्रायोऽनाशकशस्त्राग्निविषोदकोद्वन्धनप्रपतनैश्वेच्छताम्' इति । क्रोधग्रहणं प्रमादव्यापादितनिरासार्थम् । अयुद्धग्रहणं युद्धहतस्यैकाहमाशौचमस्तीति ज्ञापनार्थम् । -'ब्राह्मणार्थं विपनानां योषितां गोग्रहेऽपि च । आहवेऽपि हतानां च एकरात्रमशौचकम् ॥' इति स्मरणात् । एतच्च युद्धकाल. क्षतेनैव कालान्तरविपन्नस्य । समरमूर्धनि हतस्य पुनः सद्यःशौचम् । यथाह मनुः (५।९०)-'उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च । सद्यः संतिष्ठते यज्ञस्तथाशौचमितिः स्थितिः ॥' इति ॥ ज्ञातस्यैव जननादेराशौचनिमित्तत्वाजन्मदिनादुत्तरकालेऽपि ज्ञाते दशाहा. दिप्राक्षावपवादमाह प्रोषिते कालशेषः स्यात्पूर्णे दचोदकं शुचिः ॥२१॥ प्रोषिते देशान्तरस्थे यत्रस्थेन प्रथमदिवस एव सपिण्डजननादिकं न ज्ञायते तस्मिन्सपिण्डे कालस्य दशाहाद्यवच्छिन्नस्य यः शेषोऽवशिष्टकालः स एव शुद्धि. हेतुर्भवति । पूर्णे पुनराशौचकाले दशाहादिके प्रेतायोदकं दत्त्वा शुद्धिर्भवति । १ यावन्नाभ्युदितो रविः घ. २ यथातिथीति ख. ३ शौचमित्यर्थः न पुनः ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy