________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता ।
३१३
उदकदानस्य स्नानपूर्वकत्वात्स्नात्वोदकं दत्वा शुचिर्भवति । तदुक्तं मनुना ( ५/७७ ) - 'निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । सवासा जलमालुत्य शुद्धो भवति मानवः ॥' इति । 'पूर्णे दस्वोदकं शुचिः' इति प्रेतोदकदान सहचरितस्याशौचकालस्य शुद्धिहेतुत्वविधानात् जन्मन्यतिक्रान्ताशौचं सपिण्डानां नास्तीति गम्यते । पितुस्तु निर्दशेऽपि जनने स्नानमस्त्येव । 'श्रुत्वा पुत्रस्य जन्म च' इति वचनात् । एतच्च पुत्रग्रहणं जन्मनि सपिण्डानामतिक्रान्ताशौचं नास्तीति ज्ञापकम् । अन्यथा 'निर्दशं ज्ञातिमरणं श्रुत्वा जन्म च निर्दशम्' इत्येवावक्ष्यत् । न चोक्तम् । तथाच देवलः - 'नाशुद्धिः प्रसवाशौचे व्यतीतेषु दिनेष्वपि ' इति । तस्माद्विपत्तावेवातिक्रान्ताशैौचमिति स्थितम् ॥ केचिदन्यथेमं श्लोकं पठन्ति - 'प्रोषिते कालशेषः स्यादशेषे त्र्यहमेव तु । सर्वेषां वत्सरे पूर्णे प्रेते दच्वोदकं शुचिः ॥' इति । प्रोषिते प्रेते सर्वेषां ब्राह्मणक्षत्रियादीनामविशेषेण कालशेषः शुद्धिहेतुः । अशेषे पुनरतिक्रान्ते दशाहादौ सर्वेषां त्र्यहमेवाशौचम् । संवत्सरे पूर्ण यदि प्रोषितप्रयाणमवगतं स्यात्तदा सर्वो ब्राह्मणादिः स्नात्वोदकं दत्त्वा शुचिः स्यात् । तथाच मनुः ( ५/७६ ) - ' संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति' इति । भयं च त्र्यहो दशाहादूर्ध्वं मासत्रयादर्वाग्द्रष्टव्यः । पूर्वोक्तं तु सद्यः शौचं नवममासादूर्ध्वमर्वाक्संवत्सराद्रष्टव्यम् । यत्पुनर्वासिष्ठं वचनम् 'ऊर्ध्व दशाहाच्छुत्वैकरात्रम्' इति, तदूर्ध्वं षण्मासेभ्यो यावन्नवंमम् । यदपि गौतमवचनम् 'श्रुत्वा चोर्ध्वं दशम्याः पक्षिणी' इति, तन्मासत्रयादूर्ध्वमर्वाक्षष्ठात् । तथाच वृद्धवसिष्ठः - 'मासत्रये त्रिरात्रं स्यात्परमासे पक्षिणी तथा । अहस्तु नवमादर्वागूर्ध्वं स्त्रानेन शुध्यति ॥' इति । एतच्च मातापितृव्यतिरिक्तविषयम् । 'पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः । श्रुत्वा तद्दिनमारभ्य दशाहं सूतकी भवेत् ॥' इति पैठीनसिस्मरणात् । तथाच स्मृत्यन्तरेऽपि - 'महागुरुनिपाते तु आर्द्रवस्त्रोपवासिना । अतीतेऽब्देपि कर्तव्यं प्रेतकार्यं यथाविधि ॥' इति । संवत्सरादूर्ध्वमपि प्रेतकार्यमा शौचोदकदानादिकं कार्य न पुनः स्नानमात्राच्छुद्धिरित्यर्थः । पितृपत्यामपि मातृव्यतिरिक्तायां स्मृत्यन्तरे विशेषो दर्शितः - 'पितृपदयामपेतायां मातृवर्ज द्विजोत्तमः । संवत्सरे व्यतीतेऽपि त्रिरात्रमशुचिर्भवेत् ॥' इति । यस्तु नद्यादिव्यवहिते देशान्तरे मृतस्तत्सपिण्डानां दशाहादूर्ध्वं मासत्रयादर्वागपि सद्यः शौचम् । - ' देशान्तरमृतं श्रुत्वा कीबे वैखानसे यतौ । मृते स्नानेन शुध्यन्ति गर्भस्रावे च गोत्रिणः ॥’ इति । देशान्तरलक्षणं च बृहस्पतिनोक्तम्- 'महानद्यन्तरं यत्र गिरिर्वा व्यवधायकः । वाचो यत्र विभिद्यन्ते तद्देशान्तरमुच्यते ॥ देशान्तरं वदन्त्ये के षष्टियोजनमायतम् । चत्वारिंशद्दन्त्यन्ये त्रिंशदन्ये तथैव च ॥' इति । इदं चातिक्रान्ता शौचमुपनीतो परमविषयम् । न पुनर्वयोवस्थाविशेषाशैौचविषयमपि । तथाचोक्तं व्याघ्रपादेन - 'तुल्यं वयसि सर्वेषामतिक्रान्ते तथैव च । उपनीते तु
-
१ मिति स्थितिः ख. २ प्रोषिते सर्वेषां ख. ३ वैखानसो वानप्रस्थः.
For Private And Personal Use Only