________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१०
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताब्यायः
मृतजनने जातमृते वा सपिण्डानां जनननिमित्तं परिपूर्णमाशौचम् । -'जातमृते मृतजाते वा सपिण्डानां दशाहम्' इति हारीतसरणात् । -'अतः सूतके चेदोत्थानाशौचं सूतकवत्' इति पारस्करवचनाच्च । आ उस्थानादासूतिकाया उत्थानाइशाहमिति यावत् । सूतकवदिति शिशूपरमनिमित्तोदकदानरहितमित्यर्थः । बृहन्मनुरपि-'दशाहाभ्यन्तरे बाले प्रमीते तस्य बान्धवैः । शावाशौचं न कर्तव्यं सूत्याशौचं विधीयते ॥' इति । तथाच स्मृत्यन्तरमपि -'अन्तर्दशाहोपरतस्य सूतिकाहोभिरेवाशौचम्' इति । एवमादिवचननिचयपोलोचनया सपिण्डानां जनननिमित्ताशौचसंकोचो नास्तीति गम्यते । यत्पुनबृंहद्विष्णुवचनम्-'जाते मृते मृतजाते वा कुलस्य सद्यःशौचम्' इति तच्छिशूपरमनिमित्तस्याशौचस्य स्नानाच्छुद्धिप्रतिपादनपरं न प्रसवनिमित्तस्य । तथाच पारस्कर:-गर्भे यदि विपत्तिः स्वादशाहं सूतकं भवेत् ।' सपिण्डानां प्रससवनिमित्तस्य विद्यमानत्वात् ।-'जीवजातो यदि प्रेयासघ एव विशुख्यति' इति प्रेताशौचाभिप्रायम् । तथाच शङ्खनोक्तम्-'प्राङ्गामकरणात्सद्यःशौचम्' इति । यत्पुनः कात्यायनवचनम्-'अनिवृत्ते दशाहे तु पञ्चत्वं यदि ग. च्छति । सद्य एव विशुद्धिः स्थान प्रेतं नोदकक्रिया ॥' इति, तदपि वैष्णवेन समानार्थम् । यदातु न प्रेतं नैवसूतकमिति पाठस्तदा सूतकमस्पृश्यत्वं नैव त्रादीनां भवतीत्यर्थः । अथवायमर्थः-अन्तर्दशाहे यदि शिशूपरमस्तदा प्रेताशौचम् । यदि तत्र सपिण्डजननं तदा सूतकमपि नैव कार्य किंतु पूर्वाशौ. चेनैव शुद्धिरिति ॥ यत्तु बृहन्मनुवचनम्-'जीवजातो यदि ततो मृतः सू. तक एव तु । सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् ॥' इति । यच्च बृहप्रचेतोवचनम्-'मुहूर्त जीवतो बालः पञ्चत्वं यदि गच्छति । मातुः शुद्धिदशाहेन सैद्यःशुद्धास्तु गोत्रिणः ॥' इति, तत्रेयं व्यवस्था-जननानन्तरं ना. मिवर्धनात्प्राङ्मृतौ पित्रादीनां जनननिमित्तमाशौचं दिनत्रयम् । सद्यःशौचं त्वग्निहोत्राद्यर्थम् । ---'अग्निहोत्रार्थ स्नानोपस्पर्शनात्तरकालं शौचम्' इति शङ्खस्मरणात् । नाभिवर्धनोत्तरकालं तु शिशुप्रयाणेऽपि जनननिमित्तं संपूर्णमाशौचं सपिण्डानाम् । 'यावन्न छिद्यते नालं तावनाप्नोति सूतकम् । छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते ॥' इति जैमिनिस्मरणात् ।
मनुनाप्ययमों दर्शितः ( ५।६६)-रात्रिभिर्मासतुल्यामिर्गर्भस्रावे विशुयति । रजस्युपरते साध्वी मानेन स्त्री रजस्वला ॥' इति । पूर्वभागस्याओं दर्शितः । उत्तरस्य स्वयमर्थः । रजसि निःसरणादुपरते निवृत्ते रजस्वला स्त्री ना. नेन साध्वी देवादिकर्मयोग्या भवति । स्पर्शनादिविषये पुनरनुपरतेऽपि रजसि चतुर्थेऽहनि स्नानाच्छुद्धा भवति । तदुक्तं वृद्धमनुना-'चतुर्थेऽहनि संशुद्धा भवति व्यावहारिकी' इति । तथा स्मृत्यन्तरम्-'शुद्धा भर्तुश्चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला । दैवे कर्मणि पिये च पञ्चमेऽहनि शुद्ध्यति ॥ पञ्चमेऽहनीति रजोनिवृत्तिकालोपलक्षणार्थम् । यदा रजोदर्शनादारभ्य पुनः सप्तदश १ सूतकाहोभिः ख. २ सद्यःशौचास्तु घ.
For Private And Personal Use Only