________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १ ] मिताक्षरासहिता ।
पादेनोक्तम्-'स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके। श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवामुयात् ॥' इति श्रौतानां च कार्यत्वाभिधानं नित्यनैमित्तिकाभिप्रायेण । यथाह पैठीनसिः-'नित्यानि विनिवर्तेरन्वैतानवजै शालाग्नौ
चैके' इति । नित्यानि विनिवर्तेरन्नित्यविशेषेण आवश्यकानां नित्यनैमित्तिकानां निवृत्तौ प्रसक्तायां वैतानवर्जमित्यग्नित्रयसाध्यावश्यकानां पर्युदासः । 'शालाग्नौ चैक' इति गृह्याग्नौ भवानामप्यावश्यकानां पाक्षिकः पर्युदास उक्तः। अतस्तेष्वाशौचं नास्त्येव । काम्यानां पुनः शौचाभावादननुष्ठानम् । मनुनाप्यनेनैवाभिप्रायेणोक्तम् (५।८४) 'प्रत्यूहेन्नाग्निषु क्रिया' इति । अग्निषु क्रिया न प्रत्यूहेदि. ति अनग्निसाध्यानां पञ्चमहायज्ञादीनां निवृत्तिः । अतएव संवर्तः–'होमं तत्र प्रकुर्वीत शुष्कानेन फलेन वा । पञ्चयज्ञविधानं तु न कुर्यान्मृत्युजन्मनोः ॥' इति । वैश्वदेवस्याग्निसाध्यत्वेऽपि वचनानिवृत्तिः । 'विप्रो दशाहमासीत वैश्वदेवविवर्जितः' इति तेनैवोक्तत्वात् ॥ 'सूतके कर्मणां त्यागः संध्यादीनां विधीयते' इति यद्यपि संध्याया विनिवृत्तिः श्रूयते तथाप्यालिप्रक्षेपादिकं कुर्यात् । सूतके सावित्र्या चाञ्जलिं प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्यं ध्यायनमस्कुर्यात्' इति पैठीनसि स्मरणात् ॥ यद्यपि 'वैतानौपासनाः कार्या' इति सामान्येनोक्तं तथाप्यन्येन कारयितव्यम् । अन्य एतानि कुर्युः' इति पैठीनसिस्मरणात् । वृहस्पतिनाप्युक्तम्- 'सूतके मृतके चैव अशक्ती श्राद्धभोजने । प्रवासादिनिमित्तेषु हावयेन तु हापयेत् ॥' इति । तथा स्मार्तत्वेऽपि पिण्डपितृयज्ञश्रवणाकर्माश्वयुज्यादिकश्च नित्यहोमः कार्य एव । 'सूतके तु समुत्पन्ने स्मार्तं कर्म कथं भवेत् । पिण्डयज्ञं चरुहोममसगोत्रेण कारयेत् ॥' इति जातूकर्ण्यस्मरणात् । यद्यपि साङ्गे कर्मण्यन्यकर्तृत्वं तथापि स्वद्रव्यत्यागात्मकं प्रधानं स्वयं कुर्यात् । तस्यानन्यनिष्पाद्यत्वात् । अतएवोक्तम्-'श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवामुयात्' इति। यत्पुनः 'दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते' इति होमप्रतिषेधः स काम्याभिप्रायो वैश्वदेवाभिप्रायो वा व्यवस्थापनीयः ॥ तथा सूतकान्नभोजनमपि न कार्यम् । 'उभयत्र दशाहानि कुलस्यान्नं न भुज्यते' इति यमस्मरणात् उभयत्र जननमरणयोः । दशाहानित्याशौचकालोपलक्षणम् । कुलस्य सूतकयुक्तस्य संबन्ध्यन्नं असकुल्यैर्न भोक्तव्यं । सकुल्यानां पुनर्न दोषः। 'सूतके तु कुलस्यान्नमदोषं मनुरब्रवीत्' इति तैनेवोक्तत्वात् । अयंच निषेधो दातृभोक्त्रोरन्यतरेण जनने मरणे वा ज्ञाते सति वेदितव्यः । 'उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत् । एकेनापि परिज्ञाते भोक्तुर्दोषमुपावहेत् ॥' इति षत्रिंशन्मतदशनात् ॥ तथा विवाहादिषु सूतकोत्पत्तेः प्राक् ब्राह्मणार्थ पृथकृतमन्नं भोक्तव्यमेव । 'विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । पूर्वसंकल्पितार्थेषु न दोषः परिकीर्तितः ॥' इति बृहस्पतिस्मरणात् । तथाऽपरोपि विशेषः षट्त्रिंशन्मते दर्शितः-'विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । परैरन्नं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः ॥ भुञ्जानेषु तु विप्रेषु त्वन्तरा मृतसूतके । अन्यगेहोदकाचान्ताः
For Private And Personal Use Only