________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्याय:
सर्वे ते शुचयः स्मृताः ॥' इति ॥ तथाशौचपरिग्रहत्वेऽपि केषुचिद्रव्येषु दोषाभावः। यथाह मरीचिः-'लवणे मधुमांसे च पुष्पमूलफलेषु च । शाककाष्ठतृणेष्वप्सु दधिसर्पिःपयस्सु च ॥ तिलौषधाजिने चैव पक्कापक्के स्वयंग्रहः । पण्येषु चैव सर्वेषु नाशौचं मृतसूतके ॥' इति । पक्वं भक्ष्यजातं मोदकादि । अपक्कं तण्डुलादि । स्वयंग्रह इति स्वयमेव स्वाम्यनुज्ञातो गृह्णीयादित्यर्थः । पक्कापक्काभ्यनुज्ञानमन्नसत्रप्रवृत्तविषयम् । अन्नसत्रप्रवृत्तानामाममन्नमगर्हितम् । भुक्त्वा पक्वान्नमेतेषां त्रिरात्रं तु पयः पिबेत् ॥' इत्यङ्गिरःस्मरणात् । अत्र पक्वशब्दो भक्ष्यव्यतिरिक्तौदनादिविषयः ॥ शवसंसर्गनिमित्ताशौचे त्वङ्गिरसा विशेष उक्तः-'आशौचं यस्य संसर्गादापतेद्गहमेधिनः । क्रियास्तम्य न लुप्यन्ते गृह्याणां च न तद्भवेत् ॥' इति । तदाशौचं केवलं गृहमेधिन एव न पुनस्तद्हे भवानां भार्यादीनां तद्रव्यणां च भवेदित्यर्थः । अतिक्रान्ताशौचेऽप्ययमेवार्थः स्मृत्यन्तरे दर्शितः- 'अतिक्रान्ते दशाहे तु पश्चाजानाति चेद्गृही। त्रिरात्रं सूतकं तस्य न तद्रव्यस्य कर्हिचित् ॥' इति ॥ १७ ॥
एवमाशौचिनो विधिप्रतिषेधरूपान्धर्मानमिधायाधुना आशौचनिमित्तं कालनियमं चाह
त्रिरात्रं दशरात्रं वा शावमाशौचमिष्यते ।
ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥ ८॥ शवनिमित्तं शावम् । सूतकशब्देन च जननवाचिना तन्निमित्तमाशौचं लक्ष्यते। एवंच वदता जननमरणयोराशौचनिमित्तस्वमुक्तं भवति । तच्च जननमरणमुत्पन्नज्ञातमेव निमित्तम् । 'निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च' इत्यादिलिङ्गदर्शनात् । तथा-'विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशम् । यच्छेपं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥' इत्यादिवाक्यारम्भसामर्थ्याच्च । उत्पत्तिमात्रापेक्षत्वे ह्याशौचस्य दशाहाद्याशौचकालनियमास्तत्तत्प्रभृतिका एवेति भनिदशज्ञातिमरणश्रवणे दशरात्रशेपमेवाशौचमर्था सिध्यतीति ‘यच्छेषं दशरात्र. स्य' इत्यनारम्भणीयं स्यात् । तस्माज्जातमेव जननं मरणं च निमित्तम् । तच्चोभयनिमित्तमप्याशौचं त्रिरात्रं दशरात्रं चेष्यते मन्वादिभिः ॥ अन्नाशौचप्रकरणे अहर्ग्रहणं रात्रिग्रहणं चाहोरात्रोपलक्षणार्थम् । मन्वादिभिरिष्यत इति वचनं तदुक्तसपिण्डसमानोदकरूपविषयभेदप्रदर्शनार्थम् ॥ तथाहि—'दशाहं शावमाशौचं सपिण्डेषु विधीयते । जननेऽप्येवमेव स्थानिपुणां शुद्धिमिच्छताम् ॥ जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते । शवस्पृशो विशुध्यन्ति त्र्यहातूदकदायिनः ॥ इत्येतैर्वाक्यस्त्रिरात्रदशरात्रयोः समानोदकसपिण्डविषयत्वेन व्यवस्था कृता । अतः सपिण्डानां सप्तमपुरुषावधिकानामविशेषेण दशरात्रम् । समानोदकानां त्रिरात्रमिति ॥ यत्पुनः स्मृत्यन्तरवचनम्-'चतुर्थे दशरात्रं
-
-
१ अनुज्ञातमन्नं ख.
For Private And Personal Use Only