________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९६
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः लाभे पर्णशरैः शौनकादिगृह्योक्तमार्गेण प्रतिकृतिं कृत्वा संस्कारः कार्यः । आशौचं चात्र दशाहादिकमेव । 'आहिताग्निश्चेत्प्रवसन्नियेत पुनःसंस्कारं कृत्वा शववदाशौचम्' इति वसिष्ठस्मरणात् ॥ अनाहिताग्निस्तु त्रिरात्रम्-'सुपिष्टैजलसंमिश्त्रैर्दग्धव्यश्च तथाग्निना । असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा स बान्धवैः ॥ एवं पर्णशरं दग्ध्वा त्रिरात्रमशुचिर्भवेत् ॥' इति वचनात् ॥ ततश्चायमर्थः - 'नामकरणादर्वाङ्गिखननमेव न चोदकदानादि । तत ऊर्ध्वं यावत्रिवर्ष वैकल्पिकमन्युदकदानम् । ततः परं यावदुपनयनं तूष्णीमेवाग्युदकदानं नियतम् । वर्षत्रयात्प्रागपि कृतचूडस्य । उपनयनादूचं पुनराहिताश्यावृता दाहं कृत्वा सर्वमौर्ध्वदेहिकं कार्यम् । अयंतु विशेषः । उपनीतस्य लौकिकाग्निना दाहः कार्यः । अनाहिताग्नेह्याग्निना दाहो यथासंभवं पात्रयोजनं च कार्यम् ॥१॥२॥ संस्कारानन्तरं किं कर्तव्यमित्यत आह
सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः।
अपनः शोशुचदघमनेन पितृदिङ्मुखाः ॥३॥ सप्तमादिवसादग्दशमदिवसाद्वा ज्ञातयः समानगोत्राः सपिण्डाः समानो. दकाश्च 'अपनः शोशुचदघम्' इत्यनेन मन्त्रेण दक्षिणामुखाः अपः अभ्युपनयन्ति । अभ्युपगमनेन तत्प्रयोजनभूतोदकदानविशिष्टमभ्युपगमनं लक्ष्यते । एवं मातामहाचार्येष्वि' त्यनन्तरमुदकदानस्यातिदेशदर्शनात् । एतच्चायुग्मासु तिथिषु कार्यम्। 'प्रथमतृतीयपञ्चमसप्तमनवमेषूदकक्रिया' इति गौतमस्मरणात् ॥ एतच्च स्नानानन्तरं कार्यम् । 'शरीरमग्नौ संयोज्यानवेक्षमाणा अपोऽभ्युपयन्ति' इति शातातपस्मरणात् ॥ तथा प्रचेतसाप्यत्र विशेषो दर्शितः-प्रेतस्य बान्धवा यथावृद्धमुदकमवतीर्य नोद्धर्षयेयुरुदकान्ते प्रसिञ्चयुरपसव्ययज्ञोपवीतवाससो दक्षिणाभिमुखा ब्राह्मणस्योदङ्मुखाः प्रत्यङ्मुखाश्च राजन्यवैश्ययोः' इति ॥ स्मृत्यन्तरे तु यावन्त्याशौचदिनानि तावदुदकदानस्यावृत्तिरुक्ता । यथाह विष्णः -'यावदाशौचं तावत्प्रेतस्योदकं पिण्डं च दद्युः' इति ॥ तथा च प्रचेतसाप्युक्तम्-'दिने दिनेऽञ्जलीन्पूर्णान्प्रदद्यात्तकारणात् । तावद्वृद्धिः प्रकर्तव्या यावपिण्डः समाप्यते ॥' इति ॥ प्रतिदिनमञ्जलीनां वृद्धिः कार्या यावद्दशमः पिण्डः समाप्यत इत्यर्थः ॥ यद्यप्यनयोर्गुरुलघुकल्पयोरन्यतरानुष्ठानेनापि शास्त्रार्थः सिद्धस्तथापि बहुक्केशावहत्वेन गुरुतरकल्पे प्रवृत्त्यनुपपत्तेः प्रेतस्योपकारातिशयो भविष्यतीति कल्पनीयम् । अन्यथा गुरुतरकल्पोम्नायस्यानर्थक्यप्रसङ्गात् ॥ वसिनेनापि विशेषोऽभिहितः-'सव्योत्तराभ्यां पाणिभ्यामुदकक्रियां कुर्वी. रन्' इति ॥३॥
वक्ष्यमाणसकृत्प्रसेकस्य नामगोत्रादिभिर्गुणैर्विशिष्टस्योदकदानस्याँसमानगोत्रेषु मातामहादिष्वतिदेशमाह
__एवं मातामहाचार्यप्रेतानामुदकक्रिया । १ प्राङ्मखाश्च ख. २ कल्पनीयस्याः क. ३ स्य समान ङ.
For Private And Personal Use Only