SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकीर्णकप्रकरणम् २५] मिताक्षरासहिता। २९१ जारं चौरेत्यभिवदन्दाप्यः पञ्चशतं दमम् । उपजीव्य धनं मुञ्चस्तदेवाष्टगुणीकृतम् ॥ ३०१ ॥ किंच । स्ववंशकलङ्कभयाजारं पारदारिकं चौरं निर्गच्छेत्यमिवदन् पञ्चशतं पणानां पञ्च शतानि यस्मिन्दमे स तथोक्तस्तं दमं दप्यः । यः पुनर्जारहस्ताद्धनमुपजीव्य उत्कोचरूपेण गृहीत्वा जारं मुञ्चत्यसौ यावद्गृहीतं तावदष्टगुणीकृतं दण्डं दाप्यः ॥ ३०१ ॥ राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् । तन्मत्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ ३०२॥ किंच । राज्ञोऽनिष्टस्यानभिमतस्यामित्रस्तोत्रादेः प्रकर्षेण भूयोभूयो वक्तारं तस्यैव राज्ञ आक्रोशकारिणं निन्दाकरणशीलं तदीयस्य च मन्त्रस्य स्वराष्ट्रविवृद्विहेतोः परराष्ट्रापक्षयकरस्य वा भेत्तारं अमित्रकर्णेषु जपन्तं तस्य जिह्वामुत्कृत्य स्वराष्ट्रान्निष्कासयेत् । कोशापहरणादौ पुनर्वध एव । (मनुः ९।२७५)'राज्ञः कोशापहर्तुश्च प्रतिकूले पु च स्थितान् । घातयेद्विविधैर्दण्डैररीणां चोपैकारकान् ॥' इति मनुस्मरणात्। विविधैः सर्वस्वापहाराङ्गच्छेदवधरूपैरित्यर्थः ॥ सर्वस्वापहारेऽपि यद्यस्य जीवनोपकरणं तन्नापहर्तव्यम् चौर्योपकरणं विना । यथाह नारदः-'आयुधान्यायुधीयानां बाह्यादीन्बाह्यजीविनाम् । वेश्यास्त्रीणामलंकारान्वाद्यतोद्यादि तद्विदाम् ॥ यच्च यस्योपकरणं येन जीवन्ति कारुकाः । सर्वस्वहरणेऽप्येतन्न राजा हर्तुमर्हति ॥' इति ॥ ब्राह्मणस्य पुनः 'न शा. रीरो ब्राह्मणे दण्डः' इति निषेधाद्वधस्थाने शिरोमुण्डनादिकं कर्तव्यम्-'ब्रा. ह्मणस्य वधो मौण्ड्यं पुरान्निर्वासनाङ्कने । ललाटे चाभिशस्ताकः प्रयाणं गर्दभेन तु ॥' इति मनुस्मरणात् ॥ ३०२ ॥ मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा । राजयानासनारोदुर्दण्ड उत्तमसाहसः ॥ ३०३ ॥ किंच। मृतशरीरसंबन्धिनो वस्त्रपुष्पादेविक्रेतुः गुरोः पित्राचार्यादेस्ताडयितुः तथा राजानुमति विना तद्यानं गजाश्वादि आसनं सिंहासनादि आरोहतश्वोत्त. मसाहसो दण्डः ॥ ३०३ ॥ द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा । विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ॥ ३०४॥ किंच । यः पुनः क्रोधादिना परस्य नेत्रद्वयं भिनत्ति । यश्च ज्योतिःशास्त्रविद् गुर्वादिहितेच्छंव्यतिरिक्तो राज्ञो द्विष्टमनिष्टं संवत्सरान्ते तव राज्यच्युतिर्भवि. प्यतीत्येवमादिरूपमादेशं करोति । तथा यः शूद्रो भोजनार्थ यज्ञोपवीतादीनि १ मित्रस्तवादेः घ. २ चोपजापकान् घ. ३ न शारीरो दण्डः ख. ४ हितेप्सु ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy