________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः ब्राह्मणलिङ्गानि दर्शयति तेषामष्टशतो दमः । अष्टौ पणशतानि यस्मिन्दमे स तथोक्तः । 'श्राद्धभोजनार्थं पुनः शूद्रस्य विप्रवेषधारिणस्तप्तशलाकया यज्ञोपवीत वद्वपुष्यालिखेत्' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । वृत्त्यर्थं तु यज्ञोपवीतादिब्राह्मणलिङ्गधारिणो वध एव ।-'द्विजातिलिङ्गिनः शूद्रान्धातयेत्' इति स्मरणात् ३०४ रागलोभादिनाऽन्यथा व्यवहारदर्शने दण्डमाह
दुर्दृष्टांस्तु पुनदृष्ट्वा व्यवहारान्नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादाद्विगुणं दमम् ॥३०५॥ दुर्दष्टान्स्मृत्याचारप्राप्तधर्मोल्लङ्घनेन रागलोभादिभिरसम्यग्विचारितत्वेनाशझयमानान्व्यवहारान्पुनः स्वयं राजा सम्यग्विचार्य निश्चितदोपाः पूर्वअभ्याः संजयिनः प्रत्येकं विवादपदे यो दमः पराजितस्य तद्विगुणं दाप्याः । अप्राप्तजेत. दण्डविधिपरत्वाद्वचनस्य रागालोभादित्यादिना श्लोकेनापौनरुक्त्यम् । यदा पुनः साक्षिदोषेण व्यवहारस्य दुईष्टत्वं ज्ञातं तदा साक्षिण एव दण्ड्या न जयी नापि सभ्याः। यदा तु राजानुमत्या व्यवहारस्य दुष्टत्वं ज्ञातं तदा सर्व एव राजसहिताः सभ्यादयो दण्डनीयाः ।-'पादो गच्छति कर्तारं पादः साक्षिणमृच्छति । पादः सभासदः सर्वांन्पादो राजानमृच्छति ॥' इति वचनात् । एतच प्रत्येकं राजादीनां दोषप्रतिपादनपरं न पुनरेकस्यैव पापापूर्वस्य विभागाय । यथोक्तम्'कर्तृसमवायिफलजननस्वभावत्वादपूर्वस्य' इति ॥ ३०५ ॥ न्यायतो निर्णीतव्यवहारस्य प्रत्यावर्तयितुर्दण्डमाह
यो मन्येताजितोऽसीति न्यायेनापि पराजितः।
तमायान्तं पुनर्जित्वा दापयेद्विगुणं दमम् ॥ ३०६ ॥ यः पुनायमार्गेण पराजितोऽपि औद्धत्यान्नाहं पराजितोऽस्मीति मन्यते तमायान्तं कूटलेख्याधुपन्यासेन पुनर्धर्माधिकारिणमधितिष्ठन्तं धर्मेण पुनः पराजयं नीत्वा द्विगुणं दण्डं दापयेत् ॥ नारदेनाप्युक्तम्-'तीरितं चानुशिष्टं वा यो मन्येत विधर्मतः । द्विगुणं दण्डमास्थाय तत्कार्य पुनरुद्धरेत् ॥' इति ॥ तीरितं साक्षिलेख्यादिनिर्णीतमनुद्धृतदण्डम् । अनुशिष्टमुद्धृतदण्डम् । दण्डपर्यन्तं नीतमिति यावत् ॥ यत्पुनर्मनुवचनम् (१।२३३)-'तीरितं चानुशिष्टं च यत्र वचन विद्यते। कृतं तद्धर्मतो ज्ञेयं न तत्प्राज्ञो निवर्तयेत् ॥' इति । तदर्थप्रत्यर्थिनोरन्यतरवचनाद्व्यवहारस्याधर्मतो वृतत्वाशङ्कायां पुनर्द्विगुणदण्डप्रतिज्ञापूर्वकं व्यवहार प्रवर्तयेत् न पुनर्धर्मतो वृत्तत्वनिश्चयेऽपि राज्ञा लोभादिना प्रवर्तयितव्य इत्येवंपरम् । यत्पुनर्नुपान्तरेणापि न्यायापेतं कार्य निवर्तित तदपि सम्यक्परीक्षणेन धर्ये पथि स्थापनीयम् । 'न्यायापेतं यदन्येन राज्ञा ज्ञानकृतं भवेत् । तदप्यन्यायविहितं पुनाये निवेशयेत् ॥' इति स्मरणात्॥३०६॥ १ जयिसहिताः घ. २ दुर्दृष्टता तदा ख. ३ रेकैकस्यैव ख.
For Private And Personal Use Only