________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः विषयविशेषे दण्डाभावमाह
चतुष्पादकृतो दोषो नापैहीति प्रजल्पतः ।
काष्ठलोष्ठेषुपाषाणवाहुयुग्यकृतस्तथा ॥ २९८ ॥ चतुष्पादोगजादिभिः कृतो यो दोपो मनुष्यमारणादिरूपोऽसौ गवादिस्वामिनो न भवत्यपसरेति प्रकर्षणोच्चैर्भाषमाणस्य । तथा लकुटलोष्ठसायकपाषाणोरक्षेपणेन बाहुना युग्येन च युगं वहताश्वादिना कृतो यः पूर्वोक्तो दोषः सोऽपि काष्टादीन्प्रास्यतो न भवत्यपसरेति प्रजल्पतः । काष्टाद्युत्क्षेपणेन हिंसायां दोपाभावकथनं दण्डाभावप्रतिपादनार्थम् । प्रायश्चित्तं पुनरबुद्धिपूर्वकरणनिमित्तमस्त्येव । काष्ठादिग्रहणं च शक्तितोमरादेरुपलक्षणार्थम् ॥ २९८ ॥
छिन्ननस्येन यानेन तथा भग्नयुगादिना ।
पश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक् ॥ २९९ ॥ किंच । नसि भवा रज्जुनस्या छिन्ना शकटादियुक्तबलीवर्दनस्या रजुर्यस्मिन्याने तत् छिन्ननस्यं शकटादि तेन । तथा भग्नयुगेन आदिग्रहणानाक्षचक्रा. दिना च यानेन पश्चात्पृष्टतोऽपसरता चशब्दात्तिर्यगपगच्छता प्रतिमुखं चागच्छता च मनुष्यादिहिंसने स्वामी प्राजेको वा दोपभाङ् न भवति । अतत्प्रय. नजनितत्वाद्धिंसनस्य । तथाच मनुः ( २९१।२९२)-'छिन्ननस्ये भग्नयुगे तिर्थक्प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ छेदने चैव यत्राणां योत्तरश्म्योस्तथैव च । औक्रन्दे सत्यपैहीति न दण्डं मनुरब्रवीत् ॥' उपेक्षायां स्वामिनो दण्डमाह
शक्तोऽप्यमोक्षयन्स्वामी दंष्ट्रिणां शृङ्गिणां तथा ।
प्रथमं साहसं दद्याद्विक्रुष्टे द्विगुणं तथा ॥ ३०० ॥ अप्रवीणप्राजकप्रेरितैर्दष्ट्रिभिर्गजादिभिः शृङ्गिभिर्गवादिभिर्वध्यमानं समर्थोऽपि तत्स्वामी यद्यमोक्षयन्नुपेक्षते तदा अकुशलप्राजकनियोजननिमित्तं प्रथमसाहसं दण्डं दद्यात् । यदा तु मारितोऽहमिति विक्रुष्टेऽपि न मोक्षयति तदा द्विगुणम् । यदा पुनः प्रवीणमेव प्राजकं प्रेरयति तदा प्राजक एव दण्ड्यो न स्वामी । यथाह मनुः (२९४)-'प्राजकश्वेगवेदाप्तः प्राजको दण्डमर्हति' इति ॥ प्राजको यन्ता । आप्तोऽभियुक्तः । प्राणिविशेषाच्च दण्डविशेषः कल्पनीयः। यथाह मनुः (८।२९६-९८)-'मनुष्यमारणे क्षिप्रं चौरवकिल्बिपी भवेत् । प्राणभृत्सु महत्स्वधैं गोगजोष्ट्रहयादिषु ॥ क्षुद्राणां च पशूनां तु हिं. सायां द्विशतो दमः। पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ गर्दभाजाविकानां तु ण्डः स्यात्पञ्चमाषकः । माषकस्तु भवेद्दण्डः श्वशूकरनिपातने ॥इति ॥ १ तियेग५.रता घ. २ प्राजकः सारथिः. ३ आक्रन्दनेप्यपैहीति घ. ४ क्षुद्रकाणां पशूनां तु घ.
For Private And Personal Use Only