________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रीसंग्रहणप्रकरणम् २४ ] मिताक्षरासहिता ।
२८५
द्विजातिभिर्ब्राह्यं धर्मो यत्रोपरुध्यते' । तथा ( मनुः ८ ३५१ ) - ' नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ ' इति शस्त्रग्रहणाभ्यनुज्ञानाच्च ॥ तथा क्षत्रियवैश्ययोरन्योन्यस्यभिगमने यथाक्रमं सहस्र-पञ्चशतपणात्मकौ दण्डौ वेदितव्यौ । तदाह मनुः ( ८|३८२ ) - 'वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥' इति ॥ २८६ ॥
-
पारदार्यप्रसङ्गात्कन्यायामपि दण्डमाहअलंकृतां हेरन्कन्यामुत्तमं ह्यन्यथाधमम् । दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥ २८७ ॥ विवाहाभिमुखीभूतामलंकृतां सवर्णा कन्यामपहरनुत्तमसाहसं दण्डनीयः । तदनभिमुखीं सवर्णी हरन्प्रथमं साहसम् । उत्कृष्टवर्णजां कन्यामपहरतः पुनः क्षत्रियादेर्वध एव । दण्डविधानाच्चापहर्तृसकाशादाच्छिद्यान्यस्मै देयेति गम्यते ॥ २८७ ॥
आनुलोम्यापहरणे दण्डमाह
सकामाखनुलोमासु न दोषस्त्वन्यथा दमः ।
यदि सानुरागां हीनवर्णी कन्यामपहरति तदा दोषाभावान्न दण्डः । अन्य• था त्वनिच्छन्ती मपहरतः प्रथमसाहसेो दण्डः ॥
कन्यादूषणे दण्डमाह
दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥ २८८ ॥
अनुलोमास्त्रित्यनुवर्तते । यद्यकामां कन्यां बलात्कारेण नखक्षतादिना दूषयति तदा तस्य करश्छेत्तव्यः ॥ यदा पुनस्तामेवाङ्गुलिप्रक्षेपेण योनिक्षतं कुर्वन्दूषयति तदा मनूक्तषट्शत सहितोऽङ्गुलिच्छेदः । ( मनुः ८ ३६७ ) – 'अभिपह्य तु यः कन्यां कुर्याद्दर्पेण मानवः । तस्याशु कयै अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥' इति ॥ यदा पुनः सानुरागां पूर्ववदूषयति तदापि तेनैव विशेष उक्तः ( मनुः ८३६८ ) - ( सकामां दूषयन्कन्यां नाङ्गुलिच्छेदमर्हति । द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥' इति ॥ यदा तु कन्यैव कन्यां दूषयति विदग्धा वा तत्रापि विशेषस्तेनैवोक्तः ( मनुः ८१३६९ ) - ' कन्यैव कन्यां या कुर्या - तस्यास्तु द्विशतो दमः । या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति ॥ अङ्गुल्योरेव वा च्छेदं खरेणोद्वहनं तथा ॥' इति । कन्यां कुर्यादिति कन्यां योनिक्षतवतीं कुर्यादित्यर्थः ॥ यदा पुनरुत्कृष्टजातीयां कन्यामविशेषात्सकामामकामां वाभिगच्छति तदा हीनस्य क्षत्रियादेर्बंध एव । ( ८१३६६ ) - 'उत्तम सेवमानस्तु जघन्यो वधमर्हति' इति मनुस्मरणात् ॥ यदा सवर्णी सकामाम
१ हरेत्कन्याम् घ. २ दूषयंस्तुल्यो ख. ३ विशेषात्सानुरागामकामां ख.
For Private And Personal Use Only