________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ॥ २८५ ॥ प्रतिषिध्यत इति प्रतिषेधः पतिपित्रादिभिर्येन सह संभाषणादिकं निषिद्धं तत्र प्रवर्तमाना स्त्री शतपणं दण्डं दद्यात् । पुरुषः पुनरेवं निषिद्धे प्रवर्तमानो द्विशतं दद्यात् । द्वयोस्तु स्त्रीपुंसयोः प्रतिषिद्धे प्रवर्तमानयोः संग्रहणे संभोगे वर्णानुसारेण यो दण्डो वक्ष्यते स एव विज्ञेयः । एतच्च चारणादिभार्याव्यतिरेकेण । (८३६२)-'नैप चारणदारेषु विधिर्नात्मोपजीविषु । सजयन्ति हि ते नारी निगूढाश्चारयन्ति च ॥' इति मनुस्मरणात् ॥ २८५ ॥ तदिदानी संग्रहणे दण्डमाह
सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥ २८६ ॥ चतुर्णामपि वर्णानां बलात्कारेण सजातीयगुप्तपरदाराभिगमने साशीतिपणसहस्रं दण्डनीयः । यदा त्वानुलोम्येन हीनवर्णी स्त्रियमगुप्तामभिगच्छति तदा मध्यमसाहसं दण्डनीयः । यदा पुनः सवर्णामगुप्तामानुलोम्येन गुप्तां वा व्रजति तदा मानवे विशेष उक्तः (८-३७८-३८३)-'सहस्रं ब्राह्मणो दण्ड्यो तुप्तां विप्रां बलादजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः ॥' तथा-'सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्रायां क्षत्रियविशोः सहस्रं तु भवेद्दमः ॥' इति ॥ एतच्च गुरुसखिभार्यादिव्यतिरेकेण द्रष्टव्यम् । -'माता मातृष्वसा श्वश्रूर्मातुलानी पितृप्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ दुहिताचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ आसामन्यतमां गच्छन्गुरुतल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥' इति नारदस्मरणात् ॥ प्रातिलोम्ये उत्कृष्टवर्णस्त्रीगमने क्षत्रियादेः पुरुषस्य वधः । एतच्च गुप्ताविषयम् । अन्यत्र तु धनदण्डः । (८।३७६।३७७)-'उभावपि हि तावेव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्वद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ ब्राह्मणी यद्यगुप्तां तु सेवेतां वैश्यपार्थिवौ । वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ॥' इति मनुस्मरगात् । शूद्रस्य पुनरगुप्तामुत्कृष्टवर्णा स्त्रियं व्रजतो लिङ्गच्छेदनसर्वस्वापहारौ । गुप्तां तु व्रजतस्तस्य वधसर्वस्वापहाराविति तेनैवोक्तम् ॥ (मनुः ८१३७३) ---- 'शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् । अंगुप्तमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते॥' इति । नार्याः पुनहींनवर्ण व्रजन्त्याः कर्णयोरादिग्रहणान्नासादेश्च कर्तनम् । आनुलोम्येन वा सवर्ण वा व्रजन्त्या दण्डः कल्प्यः । अयं च वधाधुपदेशो राज्ञ एव तस्यैव पालनाधिकारान्न द्विजातिमात्रस्य । तस्य ब्राह्मणः परीक्षार्थमपि शस्त्रं नाददीत' इति शस्त्रग्रहणनिषेधात् । यदा तु राज्ञो निवेदनेन कालविलम्बनेन कार्यातिपाताशङ्का तदा स्वयमेव जारादीन्हन्यात् (मनुः८१३४८)-'शस्त्रं १ अगुप्तकाङ्गसर्वस्वैः घ.
For Private And Personal Use Only