________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः दशपणान्दण्डनीयः । यः पुनः समर्थः क्षीणशक्तिं पूर्ववदाक्षिपत्यसौ पूर्वोक्तशतादिदण्डोत्तरकालं तस्याशक्तस्य क्षेमार्थ प्रतिभुवं दापनीयः ॥ २०९ ॥ तीनाक्रोशे दण्डमाह
पतनीयकृते क्षेपे दण्डो मध्यमसाहसः ।
उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥२१० ।। पातित्यहेतुभिर्ब्रह्महत्यादिभिर्वर्णिनामाक्षेपे कृते मध्यमसाहसं दण्डः । उपपातसंयुक्ते पुनर्गोघ्नस्त्वमसीत्येवमादिरूपे क्षेपे प्रथममाहसं दण्डनीयः ॥२१०॥
विद्यनृपदेवानां क्षेप उत्तमसाहसः।।
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ २११ ॥ किंच। त्रैविद्याः वेदत्रयसंपन्नास्तेषां राज्ञां देवानां च क्षेपे उत्तमसाहसो दण्डः । ये पुनर्ब्राह्मणमूर्धावसिक्तादिजातीनां पूगाः संघास्तेषामाक्षेपे मध्यमसाहसो दण्डः । ग्रामदेशयोः प्रत्येकमाक्षेपे प्रथमसाहसो दण्डो वेदितव्यः ॥२११॥
इति वाक्पारुष्यं नाम विवादपदप्रकरणम् ।
अथ दण्डपारुष्यप्रकरणम् १९ संप्रति दण्डपारुष्यं प्रस्तूयते । तत्स्वरूपं च नारदेनोक्तम्-'परगानेष्वभिदोहो हस्तपादायुधादिभिः । भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते ॥' इति । परगानेषु स्थावरजङ्गमात्मकद्रव्येषु हस्तपादायुधैरादिग्रहणादावादिभिर्योऽभिदोहो हिंसनं दुःखोत्पादन तथा भस्मना आदिग्रहणाद्रजःपङ्कपुरीपाद्यैश्च य उपघातः संस्पर्शनरूपं मनोदुःखोत्पादनं तदुभयं दण्डपारुष्यम् । दण्ड्यतेऽनेनेति दण्डो देयस्तेन यत्पारुष्यं विरुद्धाचरणं जङ्गमादेव्यस्य तद्दण्डपारुष्यम् । तस्य चावगोरणादिकारणभेदेन त्रैविध्यमभिधाय हीनमध्यमोत्तमद्रव्यरूपकर्म त्रैविध्यात्पुनस्पैविध्यं तेनैवोक्तम्--तस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तमक्रमात् । अवगोरणनिःसङ्गपातनक्षतदर्शनैः ॥ हीनमध्योत्तमानां च द्रव्याणां समतिक्रमात् । त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनम् ॥' इति । निःसङ्गपातनं निःशङ्कप्रहरणम् । त्रीण्येव साहसानि त्रिप्रकाराण्येव । सहसा कृतानि दण्डपारुष्याणीत्यर्थः ॥ तथा वाग्दण्डपारुष्ययोरुभयोरपि द्वयोः प्रवृत्तकलहयोर्मध्ये यः क्षमते तस्य न केवलं दण्डाभावः किंतु पूज्य एव । तथा पूर्व कलहे प्रवृत्तस्य दण्डगुरुत्वम् । कलहे च बद्धवैरानुसन्धातुरेव दण्डभाक्त्वम् । तथा तयोर्द्वयोरपराधविशेषापरिज्ञाने दण्डः समः। तथा श्वपचादिभिरार्याणामपराधे कृते सजना एव दण्डदापनेऽधिकारिणस्तेषामशक्यत्वे तानू राजा घातयेदेव नार्थ
१ क्षेमाय घ. २ प्रथमसाहसः घ. ३ वर्णानामाक्षेपे ग. ४ संबन्धे तु घ. ५ करणभेदेन ख. ६ तस्योपदृष्टं ख. ७ निःशङ्कपातन घ.
For Private And Personal Use Only